________________
सज्जनश्रियमहं बहुशोऽभिनन्दे
-मुनिश्री ललितप्रभसागरजी यस्याः स्वभावमतुलं सरलं गम्भीरं, निधू तकल्मषमनिन्द्यमचिन्त्यरूपम् । सर्वेऽपि साधुपुरुषाः सततं वदन्ति, तां सज्जनश्रियमहं बहुशोऽभिनन्दे ॥१॥ या स्त्यते सकलशास्त्र-विचार बोधात्, साध्वीजनैः श्रमण-श्रावक सर्वसंधैः । सम्मानिता समभवच्च गुणैरुदारैः, तां सज्जनश्रियमहं बहुशोऽभिनन्दे ॥२॥ यस्या मुखाब्जममलं परिदर्शनीयं, कान्तं नितान्तमनिशं सुविकासमेति । या ज्योतिरागमनिधेः नितरां विभाति, तां सज्जनश्रियमहं बहुशोभिनन्दे ॥३॥ या वीतरागरुचिरास्तसमस्तदोषा, नारीजगत्सु महनीयतमा विभाति । या विद्यया च वयसा च समुन्नतास्ति, तां सज्जनश्रियमहं बहुशोऽभिनन्दे ॥४॥ शुभ्राददातरुचिरेण गुणेन यस्याः, लोकत्रयेऽपि गरिमा परिवर्धतेऽद्य । श्री वर्द्ध मानकथितस्य मतस्य नूनः, तां सज्जनश्रियमहं बहुशोऽभिनन्दे ॥५॥ जयतु जयतु नित्यं, ज्ञान विज्ञान सारा, शुभगुणगणभारा, धर्मकर्माक्षितारा।
ललितवरविचारा, सर्वशास्त्राधिकारा, विगतबहुविकारा, सज्जनश्रीरुदारा ॥६॥ पद्य पुष्पम्
-40 ब्रह्मदत्त शर्मा फनोदी सुरम्ये धन्वे वै सिधुपुरीनवासैरपचिता,
सुमन्ये मान्येयं जिनवरकथावाचकवरा, सुगण्या धर्मज्ञे नयपथसुगन्त्रीबुधबुधा,
___ सतां सल्लोकश्री जयजयनिनादैविजयते ॥१॥ जिनेजन्यं ज्ञानं वितरति च नित्यं सुकृतिने,
___ कवैवर्यै वर्या मधुमधुवचोभिःप्रियकरा, जिनेमग्ना साध्वी गुरुजन मुखर्मानितपदा,
सतां सल्लोकश्री जयजय निनादैविजयते ॥२॥ सुशिष्या मर्मज्ञा निगमनिपुणा सत्कविवरा, ___दृढ़ा वीरे भक्तिः करुणहृदया दीनसुखदा, शुभे जैने शास्त्र तव गुणगणज्ञाः बहुजनाः
सतां सल्लोकश्री जयजय निनादैविजयते ॥३॥ वरेण्या शास्त्रज्ञे जिनगुणगणज्ञा शुभमनाः,
सुशीला दैवज्ञा प्रथितलटियाले सिधुपुरे । चिरायुर्जीव्यात्सा शुभशुभ गिरा दत्त वचनम्,
सतां सल्लोकश्री जयजय निनादैविजयते ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org