________________
३१०
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : चतुर्थ खण्ड
सत्वात्, घटरूप नाशे तदाधारस्यापि नाशो भविष्यति । तथैवात्मना साकं समवायेन सम्बन्धेन सम्बन्धिज्ञानस्य नाशे आत्मनोऽस्तित्वेऽप्यापत्तिरापतिष्यति । नित्यतायास्तु प्रश्न एव नोद्भवति ।
यद्यात्मज्ञानयोः समवाये समवायेतरस्य कल्पना क्रियते चेदनवस्थादोषापत्तिः ।
स्व-परप्रकाशकप्रदीप दृष्टान्तदानेन समवायः स्वस्वभावेनैवात्मज्ञानयोः स्वेन साकं सम्बध्यते, एतदपि युक्त्यसंगतम् । यतो न्यायमते धर्म-धर्मिणौ सर्वथा भिन्नौ स्तः । येन तेजो यस्य द्रव्यं, प्रकाशश्च यस्य धर्मः तेन प्रदीपदृष्टान्तेन युक्तिन संभवति । कारणम्, एकान्तेन भेदः स्वीकारे प्रदीप एवं कथं भवति ? यदि न्यायमते प्रदीपस्य स्वपर-प्रकाशकत्वमेव न सिद्ध यति, ततोऽस्थाधारे समवायस्य सिद्धिः कथं संभवेत् । तथा च यावत् समवायो न सिद्ध यति तावदन्या ऊहापोहो वायुतरङ्गवत् निराधारौ।
समवायस्य स्वपर-प्रकाशकः स्वभाव एव, समवायेन भिन्नो वाऽभिन्नो वा ? आद्यपक्ष स्वीकार उभयमपि समवायस्य स्वभाव-स्वरूपमिति कथं भवेत् ? अस्याधारेऽन्यतर समवाय कल्पनापि कर्तुं न शक्यते ! अनवस्थादोषागमात् ।
द्वितीयेऽभिन्ने पक्षे स्वभावास्तित्वं विना समवायमात्रमेवावशिष्टं भवति ।
समवायिषु यदि समवायस्य ज्ञानं समवायान्तरेण विना स्वत उद्भवति चेद् "आत्मविज्ञानं" इति प्रतीतौ समवायस्य काऽवश्यकता ? अतो ज्ञानम् आत्मनः सर्वथा भिन्न नास्ति । आत्मनि चैतन्यं भिन्नाभिन्नत्वेनाङ्गीकरणीयम् । सर्वेषां वस्तूनामनैकांतिकत्वात् । न तु सर्वथा भिन्नं न च सर्वथाऽभिन्नम् । एकान्त भिन्नपक्षे "अहं सुखी, अहं दुःखी, अहं जानामि" प्रभूत्याभेद प्रतिभासः कथं भवेत् ? तथैव सर्वथाऽभिन्नपक्षे, आत्मा स्वरूपी चतन्यं च तस्य स्वरूपमस्ति, एतादृक् भेदामाव आगमिष्यति ।
आत्मनोस्तित्वस्य सिद्धयर्थं चैतन्यकारकं ज्ञानमेय स्थायी गुणः । अस्याभावे सिद्धेरभावः । परिणाम्यात्मापरिणमनं प्रतिसमयमपरापरपर्यायेषु गमनं परिणामः स नित्यमस्यास्तीति परिणामी।
परिणामोऽवस्थान्तर गमनं न च सर्वथा ह्यवस्थानम् ।
न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः ॥ पातञ्जल टीकाकारोप्याह-"अवस्थितस्य द्रव्यस्य पूर्वधर्म-निवृत्ती धर्मान्तरोत्पत्ति: परिणामः इति ।"
अनेन परिणामी विशेषणेन नैयायिकानां कूटस्थनित्यतामतं तिरस्कृतम् । कूटस्थनित्यवादिनो नैयायिका नित्यआत्मनि कर्तृत्वं भोक्तृत्वं, जन्म-जरा-मृत्वादिकमपि संभवतीत्यामनन्ति । यथा ज्ञानमिच्छादीनां सम्बन्धेन कतृत्वं सुखदुःखादीनां सम्बन्धेन वियोगेन च जन्म-मृत्यू भवतः ।
परमेतन्नयुक्तिसंगतम्-पूर्वावस्थाऽभावे उत्तरावस्थायाः प्राप्तिः सम्बन्धमित्युच्यते । तथा च कूटस्थ नित्यपक्षे संबन्धस्य संभावनैव कथं भवेत् । सम्बन्धेन बिना सम्बन्धिषु कर्तृत्वस्य भोक्तृत्वस्य च प्रलापो व्यर्थ एव । पूर्वावस्थाया परित्यागेन विना ज्ञानादीनां समवायस्योत्पत्तिः स्वीकारे वन्ध्य पुत्र जन्मोत्सववत् भविष्यति ।
तथा च ज्ञानोत्पत्तिसमयेऽपि पूर्वावस्थावदेवात्मा परिकल्प्यते, पूर्वावस्थायां परिच्छेदकाभाववानासीत, अनन्तरं च ज्ञानोत्पत्तिसमये पदार्थपरिच्छेदकत्वं कथं संभवति ?
कारणं प्रतिनियतस्वरूपाप्रच्युतिरूपत्वं कौटस्थ्यम्। आत्मनि पदार्थपरिच्छेदकत्वं मन्यमाने, प्रथमं योऽप्रमाताऽसीत् सैवाधुना प्रमातृत्वेन परिणतः । अनेन तु कूटस्थनित्यता कथं संभवेत् ? अपरापरपर्यायेषु गमनेनाऽत्मनोऽवस्था परिवर्तते । गुणोऽयं जडे नोपलभ्यते, अतः परिणाम्यात्मा । कर्ता, साक्षाद् मोक्ता
कर्ता, साक्षाद् भोक्तं ति विशेषणयुगलेन कापिलमतं भिद्यतेः । तथाहि कापिलाः कर्तृत्वं प्रकृते प्रतिजानीते न पुरुषस्य । पुरुषस्तु
अमूर्तश्चेतना भोगी, नित्यः सर्वगतोऽक्रियः ।
अकर्ता निर्गुणः सूक्ष्म, आत्मा कापिल्यवर्शने ॥ अन्धपङ्ग वत् प्रकृति पुरुषयोः संयोगः । चिच्छक्तिश्च विषयपरिच्छेदशून्या । यत इन्द्रियद्वारेण सुख-दुःखादयो विषयाः बुद्धौ प्रतिसंक्रामन्ति बुद्धिश्चोभयमुखदर्पणाकारा । ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते । ततः सुख्यहं दुख्यहं मित्युपचारः । आत्मा बुद्ध रव्यतिरिक्तमभिमन्यते ।
Jain Education International.
For Private & Personal Use Only
www.jainelibrary.org