________________
भारतीय दर्शन में आत्म-मीमांसा
३०६
.
यद्यताह कार्यकारणभावेङ्गीक्रियते चेद् घट सामग्र या पटस्योत्पत्तिर्भविष्यति । परं तथा प्रतीतिस्तु न दृश्यते । अतो जडात् चैतन्योत्पत्तिरिति व्यवहारस्त्वलीक एव ।
तथा च चैतन्यं जडस्वरूपमित्यपि वक्तुं न शक्यते । व्यर्थपदार्थान्तरकल्पना गौरवाच्च । अतो भूतचैतन्यवादस्तु न तर्कसंगतः।
तथा च चैतन्यं न दृष्टम् । तत् त्वतीन्द्रियग्राह्यम् । अतएव तस्य स्वीकारो न कर्तव्य इति तेषां मतम् ।
अदृष्टपदार्थस्यादृष्टताप्रतिपादकं किमपि प्रमाणं नास्ति । अतएव प्रमाणाभावात् प्रमेयस्यापि सिद्धिर्न भविष्यति ।
परमत्र विचारणीयो विषयस्तु स एव यतो हि कुत्रापि अदृष्टः पदार्थों नास्ति । शशशृङ्गवदलीककल्पना गम्यमिति ये वदन्ति तेषां कथनं तु निरर्गलमेव । प्रत्यक्षादि-प्रमाणविचारावसरे प्रमाणगतपदार्थनां याथार्थाङ्गीकरणीयमेव । प्रत्यक्ष आत्ममनःसंयुक्तेन्द्रियस्यैव कारणता, तत्रेन्द्रियत्वं किमिति प्रश्ने-अलौकिक एव पदार्थ परिकल्पनीयो भवति । मृतदेहेष्विन्द्रियस्याधिष्ठानभूतस्य स्थाने सत्त्वेपीन्द्रिय द्वारा संपादिते व्यवहारेऽक्षमता दृश्यते । अतस्तत् तदिन्द्रियाश्रयीभूतं किंचिदृष्ट वस्त्वङ्गीकरणीयमेव । अतोऽदृष्टपदार्थानङ्गीकारे सर्वत्र प्रमाणाभावस्य संचारो भविष्यति । तेन च प्रमेयसिद्धिः कदापि न भविष्यति । किञ्च मेघाधीना मानसिद्धिरिति नैयायिकानां सिद्धान्तः । अतोऽदृष्यमिन्द्रियं प्रत्यक्षादि व्यवहारमूलकमिति तु सिद्ध भवति ।
एतादृशेन विचारेण चार्वाकस्तु सर्वथा परास्तो भविष्यति । अतश्चार्वाकमतं तत्त्वज्ञान परिकल्पित तात्पर्य निर्यायार्थकिञ्चित्यकरमेव ।
जैनदर्शने आत्म लक्षणम् "चैतन्यस्वरूपः परिणामी, कर्ता, साक्षाद् भोक्ता, देहपरिमाणः ।
प्रतिक्षेत्रं भिन्नः पौद्गलिकादृष्ट्वांश्चायम् ॥" परमश्रद्धयर्भगवत् पादः श्रीमद्भिर्वादिदेवसूरिमहाराजैरात्मनो लक्षणमेतादृशं कृतम् । अस्मिल्लक्षणे प्रदत्तविशेषणे दर्शनेतराणां निरासपूर्वकमाईतसिद्धान्तस्योपबृहणं कृतम् । जिनानुयायिन आत्मनश्चैतन्यस्वरूपमुद्घोषयन्ति ।
चेतना नाम 'आत्मशक्तिविशेषा'। चैतन्यमेवात्मनोऽसाधारणलक्षणम् । तदेव जीवाजीवयोविभेदकम् । अत उक्तं 'चेतना लक्षणो जीवः' इति । चैतन्यं साकार निराकारोपयोगाख्यम् तच्च ज्ञानदर्शनात्मकम् अनेन विशेषणेन चार्वाकान्यायवैशेषिकाश्च परास्ताः।
नैयायिकानां मते आत्मा जड रूपः (ज्ञान-शून्यः) तथा चात्मज्ञानयोः सर्वथा भेदः परं समवाय संसर्गेनात्मज्ञानयोः संबन्धो भवति । यत आत्मतानयोरभिन्नः सम्बन्ध: स्वीक्रियते चेत् ज्ञाननाशादात्मनाशोप्यङ्गीकरणीयमेव । परम-आत्मा तु नित्य द्रव्यत्वेन तैरेवाङ्गीकृत अतस्तयोरभेद रूपतात्वङ्गीकर्तुं न शक्यते नैयायिकरपि ।
तथा च रागद्वेषी, मोह दोष प्रवृत्तिः जन्म दुःखं चैतेषां क्रमशोनाशे बुद्ध यात्मगुणानां ध्वंसः, अन्ते चात्मनोऽपि नाश संभावना भवेत् । __ तथा चात्मा कर्ता ज्ञानं च करणमित्यस्य व्यवहार लोपभयाद् कामतया तैरात्मज्ञानयोरभिन्नत्वं न स्वीक्रियते ।
अत्रार्हताः "ज्ञानमया एवाऽयमात्मा" इति पक्षवादिनः। तथा च नैयायकाः "ज्ञानाधिकरणमात्मा" इति पक्षवादिनः ।
आत्मज्ञानयोः सर्वथा भिन्नत्वं न युक्तम् । यतश्चैत्रमैत्रयोर्ज्ञानस्य पृथक्त्वात् मैत्रज्ञानेन चैत्रः पदार्थ नानुभवेत् । तथैव चैत्रस्य ज्ञानमपि चैत्रादभिन्नत्वात् चैत्रस्यज्ञानेनापि चैत्रस्यात्मनो ज्ञानं न भवेत् । अर्थात् यथा अन्यस्यज्ञानेनाऽस्माभिर्न ज्ञायते, तथैवाऽस्माकं ज्ञानेनापि वयं ज्ञातुन शक्नुमः, भिन्नत्वात् ।
यदि समवायेन ज्ञानमात्मनि तिष्ठति चेद्, तदेवज्ञानं तस्मिन्नेवात्मनि वस्तुबोधं कारयितु समर्थम् । अतश्चअस्य ज्ञानं चैत्रादभिन्ने सत्त्वेऽपि समवाय सम्बन्धेन संयुक्तमस्ति अतो दोषनिरासः ।
परमेतल्यायविरुद्ध मतम् यतो न्यायमत आत्मा सर्वव्यापकः कूटस्थोनित्यश्च । तथा च समवायोऽपि नित्यः सर्वव्यापकः । अत: एकस्य ज्ञानेन सर्वेषां ज्ञानं भवतु । परमेतद् व्यवहारे न दृश्यते, यथा घटे घटरूपे च समवाय सम्बन्धः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org