________________
१३०
श्री पुष्करमुनि अभिनन्दन ग्रन्थ
कोऽपि तृप्यति दर्शनादत एव तस्य मनेन मे, दिव्यरूपधरस्य पुष्करदेवतस्य दिवानिशम् । ये पिबन्ति सुधारसं न हि ते रसन्ति जलामृतम्,
मानसस्य सरोवरस्य महौजसोऽपि दिवौकसः ॥३॥ तस्य जैनमहामुनेरनुरागवृत्तिमभीप्सिताम्, ध्यानवैभवसंग्रहस्य निरीक्ष्य विस्मयमागताः । पुष्करस्य तपस्विनोऽनुदिनं श्रयन्ति तदाश्रयम्,
किन्तु तेऽनुभवन्ति तं पुरुषोत्तमं हि विरागिणम् ।।३६।। ये महान्तममुं मुनि परिवीक्ष्य भक्तिविभूषिताः, ते नमन्ति सुनिर्भरं परिहाय मानसकल्मषम् । तानयं परिपृच्छयैव वदत्यहो मनसोगतम्,
भावमेत्य हसन्ति तेऽपि तु पुष्करस्य मुनेः पुरः॥३७॥ केऽपि दुःखिन एत्य भक्तिपरस्सरा भविनः परे, दुःखराशिनिवृत्तये पुनराशिषं भवतो मुनेः । पुष्करस्य सतां वरस्य शुभां ग्रहीतुमुपासते,
नाममङ्गलमेवमुत्तरमस्ति तस्य महामुनेः ॥३८।। सिद्धिमन्त्रमुपेत्य यो मुनिरात्मनो हितसाधकम्, नित्यमेवमुपासितुं प्रभवत्यसो यतते स्वयम् । किन्तु कष्टशतं विनाशयितुं जनस्य सदा रतः,
मन्त्रसिद्ध इवापरो मनिराज एव हि पुष्करः ॥३६॥ चक्षुषो विषयीकृताः परदूष्प्रभावनिपीडिताः, ये जनाः समुपस्थिता अपि ते भवन्ति हि नीरुजः। पुष्करस्य महामुनेः कृपयैव लब्धसुखा अमी,
यान्ति ते धृतमङ्गला जयघोषपूरितदिङ मुखाः ॥४०।। किन्त्वयं मुनिराज एव सदातनी सहजां गतिम्, पुष्करो विशिनष्टि नित्यमहो कियान् गुणनिर्भरः। शान्त एव विराजते मुनिवृत्तिनिश्चलनिर्मल:,
दृश्यते सरलो महानिति सस्मयं तु विवेकिभिः ॥४१॥ केऽपि तं कथयन्ति सन्तममुं सरोवरपुष्करम्, पुष्करं मुनिराजमेव वदन्ति केचन सत्तमम्।
अन्य एव गदन्ति तं परमोत्तमं पुरुषोत्तमम्,
___ अस्ति चैवमहो अहन्तु तमद्भुतं मुनिमानये ॥४२॥ निश्चयेन तु कोऽपि सत्यमिदं प्रवक्ति न तद्वचः, तहि जातमितो निरर्थकमेव यत्कथितं जनः । किन्त्वहं व्यवहारत: प्रतिपादयामि मनीश्वरम,
पुष्करं पुरुषोत्तमं ननु जातसिद्धिमिमं प्रभूम् ॥४३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org