________________
प्रथम खण्ड : श्रद्धार्चन
१२६
.
+
++++++++
++
+
++
++
++
++
++++
++
++++++
++++
++++
++++++
++++
++++++++
++
++
++
++
+
+
कारणादत एव तेन महाशयेन कथितम, राष्ट्रिय जनशासनं मुनिनामुना सदसां पुरः। इन्दिराप्रमुखस्य तस्य गतस्य शासनकस्य ते,
राष्ट्रियो मुनिरेव पुष्कर आत्मयोनिरभूदितः ।।२६।। ये जयन्ति मुनीश्वरा जिनधर्मकारकधोरणा:, तेष्वयं परमो मनि: प्रविभाति पुष्करतल्लजः । अस्य हेतूरयं प्रसिद्ध यति जैनधर्मविशेषताम्,
तत्सहैव तनोति शुभ्रयशःपयोदकदम्बकम् ।।२७।। तस्य सद्व्यवहार एव तु सादयत्यखिलान् जनान्. चेतसश्च महाप्रसत्तिगुणेन य: पुन: परिकर्षयन् । भक्तिभावविभूषितानपि धर्मकर्मणि नोदयन,
सोऽस्ति साधुषु सत्तमो मुनिपुष्पपङक्तिषु पुष्करः ।।२८।। यस्य माङ्गलिकं वचः पुनरेति धर्मसमर्पितम्, मार्गमव्ययशान्तिमद्भुतं भूवि जन्मिनः । कर्मबन्धपरानहं महिमानमस्य मुनेः कथम्,
वर्णयेयमहो शमेऽपि तु पुष्करस्य सुखाय मे ॥२६॥ वृतिवर्णनभावतोऽपि न कस्य निन्द्यकथां मुनेः, श्रोतुमिच्छति य: स्वयं स तु दुष्कथां कथयेत्कथम् । किन्तु नो विरमत्यसौ पुनरेव सद्गुणवर्णनात्,
स्वल्पतोऽपि च यस्य कस्य मुनेर्मुनिर्मम पुष्करः ।।३०।। यस्य कोऽपि न विद्यते विषमस्थले जगतीतले, तस्य बन्धुरयं महामुनिरेव सम्प्रति दृश्यते ।
यः स्वयं शरणागतस्य तु रक्षकोऽस्ति न केवलम्,
किन्तु यस्य विरोधिनोऽप्यनुराधकोऽस्ति स पुष्करः ॥३१॥ यः स्वयं भवदु:खिनामनुभूय दुःखकदम्बकम्, प्राणिनां हितसाधनाय निरन्तरं रमते मुनिः । ध्यानमग्न इवात्मभूरयमेव देवनिरञ्जन:,
पुष्करो मुनिराजराजिषु शोभते भवभञ्जनः ॥३२॥ य: स्वभावजनि खनेरपि कर्कशं समलोपलम्, प्रस्तरं विदधाति रत्नशिरोमणि जनरजकम् । सोऽस्ति शिल्पकलाधरो जन एवमेव महामुनिः,
पुष्करोऽपि गुणाकरं विदधाति शुद्धनरोत्तमम् ॥३३॥ योऽस्ति रत्नगुणत्रयस्य विशिष्टमूर्तिविभूषितः, पुष्करो मुनिराजराजिषु शोभते मुनिभृङ्गभृत् । जैनधर्मधरा धुरीणनरा दिदृक्षव उत्सुकाः,
तं मनि प्रतियन्ति नित्यमहो तु दृश्यमथाद्भुतम् ॥३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org