________________
प्रथम खण्ड : अवार्चन
१३१
++++
+
+
+++
++
+
00
जातसिद्धिरयं यतः प्रतिभाति सिद्ध इवापरः, मन्त्रमुग्धसमाः समे प्रभवन्ति तस्य पुरोजनाः। एकवारमभीक्ष्य तं यदि पुष्करं मुनिषूत्तमम्,
यो भवेन्न हि तस्य भक्त इवेति चित्रमसम्भवम् ।।४४॥ अद्य ये मुनयो वदन्ति महामुनि सितवाससम्, पुष्करं मुनिपुष्करं कथयन्तु तस्य सदुत्तरम् । उत्तरं यदि वर्तते ननु तर्हि वर्त्तत एव तत्,
नास्ति तत्सम एव सम्प्रति योगिराज इवात्मभूः॥४५॥ दोषदर्शनलालसर्मुनिभिर्महोत्तमसंयमैः, पुष्करस्य मुनेरमीभिरिहैव मौन मिवाश्रितम् । तस्य हेतुरियं कृपेति न वक्त मेव तदुच्यते,
किन्तु सत्यमुनीश्वरोत्तम एव पुष्कर ईश्वरः ।।४६।। ज्ञानसंयमसाधनाभिरयं समिद्धमनीश्वरः, पुष्करी मुनिरेव सम्प्रति राष्ट्रियो मुनिरुच्यते । यो बित्ति यदृच्छयैव तु शुक्लतान्तववस्त्रकम्,
देशजं पुनरेव कल्प्यमथापि तन्निचितंमितम् ॥४७॥ यः सदा विहरन्नयं मुनिराज एव विबोधयन्, स्वीयया प्रथया समं खलु धार्मिकानपि सज्जनान्। लोकतन्त्रमुपासितव्यमतीव हर्षविधायकम्,
सज्जनः स्वयमेव युक्तिभि: शोभते भुवि पुष्करः ॥४८॥ अस्य नाम मुनेः स्वयं प्रविनक्ति नामयथार्थताम, तस्य हेतुरयं विभति स राजते जनमण्डले। किन्तु तस्य विकार एव न संस्पृशन् विधुनोति तम्,
पुष्करं कमलं यथा विकरोति नाम न शम्बरम् ॥४६।। प्राकृतोऽपि जनः स्वयं ननु दीक्षयास्ति परिष्कृतः, जायते विभया समन्वितशोभयेव दिवाकरः । एवमेव तु वर्तते स्म कदाचिदेष नु बालकः,
पुष्करो मुनिरस्ति साम्प्रतिको विकस्वरभास्करः ॥५०॥ यः क्षितेरथ सूर्यमल्लमहोदयस्य महाधते:, मेदपाटनरेशरक्षितभूधरस्य सुतः स्वयम् । मातृबालिजनिजिनेश्वरधर्म . दीपशिखाधरः,
सोऽयमस्ति मुनीश्वरो ननु पूष्करस्त्रिदिवेश्वरः ॥५१॥ यः क्रियाधरपण्डितादिमुनीश्वरेष्वपि शोभन:, दीपनोऽभवदग्रणीरयमेव वा शिथिलेषु वः । तेषु सत्सु सुधीषु सत्कृत एव चन्द्रयशोधरः,
पुष्करो मुनिराजवारिधिशम्बरोद्भवमौक्तिकः ॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org