________________
प्रथम खण्ड : श्रद्धार्चन
१२५ ।
++
++
++
+
++
++
++
+
+
++
++
++
++
++++++
++++
+
+
+
++++++
++
++++++++
++
++++
++
++++++
++++++
+
++
++++
++
++
+
+
+
+
श्रद्धापुष्पाभिनन्दनम्
5 महासती पुष्पवती
शोभाधाम्नां मुनीनां समितिरतिजुषां वन्दनीयो मुनिर्यः, लोकातीतां प्रसिद्धि भजति सुविदुषां शोभनानामशेषाम् । देवं वन्दे गणेशं गुरुवरशशिनं पुष्करं कीर्तिमन्तम्, श्रद्धानन्दा सुभावा परमविनयिनी पुष्पनाम्नी सती तम् ॥ श्रीमद्देवेन्द्रबन्धु मुनिवरमतुल यो व्यधात् गुप्तियुक्तम्, शोभाधामानमन्यं गणधरयशसं शीलसामन्तभद्रम् । वन्दे साहित्यदीपं समिति-सृति-रतिं पुष्करं वन्द्यहृद्यम, श्रद्धानन्दा सुभावा परमविनयिनी पुष्पनाम्नी सती तम् ।। अन्ये ये केऽपि सन्तः प्रगुणगुणमयोद्भूतितत्त्वैकनिष्ठाः, त्वां सेवन्ते प्रवृत्या विनयमुपगताः शिष्यरत्नप्रतिष्ठाः । श्रेष्ठप्रष्ठा रमेशमुखमुनिजनाः पुष्करं तं भवन्तम्, . वन्दे नित्यं सुभावा विनतिततियुता पुष्पवत्याबशिष्या ॥ माता देवेन्द्रवन्द्या मुनिपदविभवा दीक्षिता येन लोके, भावोत्कृष्टा विशिष्टा जयति विनयिनी तस्य तत्त्वं त्वमेव । तस्मात्सन्तं भवन्तं तदुपकृतिकरं पुष्करं तं गुरु मे, वन्दे नित्यं सुभावा विनतिततियुता पुष्पवत्याबशिष्या ॥ विद्वान् विद्वत्सु योऽयं मुनिरपि मुनिषु श्रेष्ठ एव प्रसिद्धः, सिद्धः सिद्धेषु योगी सुकमलविमलो योगिराजेषु शुक्लः । नानोल्लेखोऽस्ति यस्य त्रिनयनयशसं पुष्करं तं मुनीशम्, वन्दे सत्यस्वरूपं गुरुवरमनिशं पुष्पवत्येकभक्तिः ॥ कीर्तिर्यस्य प्रशस्ता प्रसरति भूवने शुक्लिमानं च धत्ते, तस्मादिन्द्रः स्वकीयं गजवरमनिशं शारदा हंसमेवम् । विष्णुन्तिः पयोधि मृगयति पयस: पुष्करं तं गुरु मे, साक्षात्कर्तुं सदेयं भ्रमति गतिमती पुष्पवत्येकभक्तिः ।। यस्य प्रीतौ निमग्ना भ्रमरमुनिजनाः सज्जना भक्तिमन्तः वाप्येवं ते प्रशस्तं निजभजनरसं पुष्करं द्रष्टुकामाः । आयान्ती मे विनीता प्रतिदिशमभितस्तस्य सङ्ग विधातुम्, सोत्साहं मे गुरु तं प्रणमति सततं पुष्पवत्येकभक्तिः ।। श्रोतारो ये प्रहृष्टाः प्रतिदिनमभितश्चक्षते हर्षमूलम्, तद्वक्तव्यं नितान्तं किमिति किमिति ते सन्ततं श्रोतुकामाः । आयान्त्येते तदीयं भवति सुसरसं पूज्यपादस्य तस्य,
व्याख्यानं तं मुनीशं प्रणमति सहसा पुष्पवत्येक भक्तिः ।। यशोधनानां गणनाम् गुणानाम्,
अथाभिनन्द्या: सकला मुनीशाः, कथं विधातु सफला गुरूणाम् ।
तथापि मन्ये गुरुदेवमन्यम् । भवेयमित्थं मनसा विचार्य,
वन्द्यं ततोऽप्यस्त्यभिनन्दनं मे, विराममेवाहमतो दधामि ।।
गुरोरयं हर्षविमर्शहेतुः ॥ अतोऽहमेवं शुभशब्दपुष्पैः, स्रजं विरच्यव समर्पयामि। अहो सुशोभेत गुरुर्मदीयः, यशोविभास्रग्धर एव भूमौ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org