SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ यत् क्रियते तन्नाधिकम् ___ श्री नेमिचन्द पुगलिया श्रुतमिदं च ज्ञातम्, श्रीमद् अगरचन्द नाहटा महोदयानामभिनन्दनं भविष्यति वा करिष्यन्ति जनाः । चिन्तितं चेतसि समाजोऽयं जागतः । अविस्मृतिरेषा ये सुप्तास्त एव जागृताः, न तु मृताः जागृताः। यत् साहित्योपासकनां, लेखकानां, संशोधकानां, प्रबोधकानां, पाठकानां, प्रचारकाणां, च सामूहिकोऽयं सत्कार समारंभः समायोजितः सहर्ष ससुखम् । विचारयाम्यहं संशयात्मा कि व्यापारिणोऽपि साहित्यकाराः भवन्ति ? भवन्त्येव नात्र संदेहः । भवतां दर्शनाच्च परिचयात्प्राप्त प्रत्युत्तरोऽहं स्वयमेव । साहित्यसेविनः स्वाध्यायरसिकाः भवन्त्यत एव भवद्भिः प्रतिदिनं प्रत्यूषसि पंचवादनसमये समुत्थाय घंटात्रयपर्यन्तं नियमितरूपेण क्रियते स्वाध्यायः । साहित्यस्रष्टारः सोद्यमाः नवलसाः लसन्त्यत एव श्रीमद्भिः आबाल्यात् यत् कर्त्तव्यं, यत् स्मर्त्तव्यं, यल्लिखितव्यं, यत् प्रत्युत्तरितव्यं, यत् स्रष्टव्यं, यत् प्रष्टव्यं, यत् संग्रहणीयं, यत् क्रयणीयं, यत् सूचनीयं, यत् विवेचनीयं, यत् संशोधनीयं, यत् प्रबोधनीयं, यत् विश्वसनीयं, यत् निष्कासनीयं, यत् देयं, यदुपादेयं, यत् - पठनीयं, यत् पाठनीयं, यत् आचरणीयं, यत् विचारणीयं, यत् वचनीयं, यत् निर्वचनीयं तत्सर्वं न विलम्बालम्बनमवलम्बितम् । साहित्याराधकाः स्वल्पाहारिणः संयमित समयाः, परिमितहित खाद्य पेय वस्त्वोपभोक्तार एव ? उपशोभन्ते; अत एव श्रीमन्तो न निशायां दिवसेऽपि वार द्वयादधिकं भुंजते, भोजनमपि सात्त्विक, न च राजसिकम् । साहित्यशोधकर्तारः सरलात्मानः साधुवेषभूषाऽभिमंडिताः संश्रयन्त अत एव भक्तां वेषोऽपि भारतीयः तस्मिन्नपि राजस्थानीयः, तस्मिन्नपि बीकानेरीयः, तस्मिन्नपि नाधनिकः, सर्वथा नाहटा परिवार परम्परा परिलक्षितः। साहित्यधनाः अन्यस्मै प्रेरणा प्रदातारः एव भवृन्ति अत एव भवतां प्रेरणया स्थानीयास्तथा परस्थानीया अनेके छात्राः, अध्यापकाः, शोधकार्यकर्तारः, लेखकाः, जिज्ञासव : लाभान्विताः अभूवन, भवन्ति भविष्यन्ति च नात्र संशयप्रवेशः । एतादृशानां वयोवृद्धानां अनेक पदाभिलंकृतानां, विद्यावारिधीनाम् इतिहासरत्नानां, सिद्धान्ताचार्याणां, शोधमनीषिणां श्रीमद् अगरचन्द-नाहटा-महोदयानां यावदभिनन्दनं तावन्नाधिकं, किन्त्वल्पमल्पतरमल्पतममेव मन्येऽहमत्र। व्यक्तित्व, कृतित्व और संस्मरण : १६५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012007
Book TitleNahta Bandhu Abhinandan Granth
Original Sutra AuthorN/A
AuthorDashrath Sharma
PublisherAgarchand Nahta Abhinandan Granth Prakashan Samiti
Publication Year1976
Total Pages836
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy