________________
१
પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખો : ૩૧૭
भवति विभवे पुंसां चक्षुस्तृतीयमिति श्रुति
र्न तु कुमतयस्ते वीक्षन्ते सति त्रितये दृशाम् । अयमिह परं मन्त्री नेत्रद्वयेऽपि करस्थिता
मलकफलकप्रायां लोकद्वयीमवलोकते ॥ १२ ॥ वस्तुपाल ! सदा हस्ते सत्यप्यमृतवर्षिणि । वैरिवर्गः 'सदाहस्ते यत् तदेतदिहाद्भुतम् ॥ १३ ॥ आकर्षन्नसिदण्डमेव न पुनः पादं विमुञ्चन्निषु
श्रेणीमेव न मानितां विनमयन् धन्वैव नोच्चैः शिरः । कम्पं दन्तपिधानमेव न मनः संख्ये दधानश्चम
त्कारं कस्य चकार नैव सचिवस्तोमैकवास्तोष्पतिः १ ॥ १४ ॥ प्रासादास्तव वस्तुपाल ! त इमे तन्वन्ति चेतः सतां
सानन्दं शशिशेखराद्रिशिखर ग्रामाभिरामश्रियः । येषां काञ्चनकुम्भसम्भवमहः सन्दोह सन्तर्पिताः
सन्त्युच्चैस्तुहिनोच्चयेऽप्युपचयं पुष्णन्ति पूष्णः कराः ॥ १५ ॥ परिपीडिता समन्ताजडसमयेनामुना गिरा देवी । श्रीवस्तुपालसचिवं निबिडगुणं पटमिवाश्रयति ॥ १६ ॥
उद्धृत्य बाहुमहमेष मुहुर्वदामि ब्रूतां स मद्वचसि विप्रतिपद्यते यः । यद्यस्ति कश्चिदपरः परमार्थवेदी श्रीवस्तुपालसचिवेन समः क्षमायाम् ॥ १७॥ श्रीवस्तुपाल ! चिरकालमयं जयन्तसिंहः सुतस्तव भवत्वधिकाधिक श्रीः । यस्तावकीनधनवृष्टिहृतावशिष्टं शिष्टेषु दौस्थ्यदवपावकमुच्छिनत्ति ॥ १८ ॥
यथा यथाऽयं तव वस्तुपाल ! गोत्रं गुणैः सूनुरलङ्करोति । तथा तथा मत्सरिणां नराणामवैमि चित्तेष्वनलं करोति ॥ १९ ॥
पुरा पादेन दैत्यारेर्भुवनोपरिवर्तिना ।
अधुना वस्तुपालस्य हस्तेनाधःकृतो बलिः ॥ २० ॥
मध्यस्थं कथयन्ति केचिदिह ये त्वां साधुवृत्त्या बुधाः
श्रीमन्त्रीश्वर ! वस्तुपाल ! न मृषा तेषामपि व्याहृतम् । कर्णोऽभूदुपरि क्षितेर्बरिधस्त्वं चात्र मध्ये तयोः
स्थातेत्यर्थसमन्वये ननु वयं मध्यस्थमाचक्ष्महे ॥ २१ ॥ कम्पाकुलमवलोक्य प्रतिवीराणां रणाङ्गणे हृदयम् । अनुकम्पा कुलमयमपि सचिवश्चक्रे निजं चेतः ॥ २२ ॥ नरेन्द्रश्रीमुद्रा सपदि मदिरेवापहरते
हताशा चैतन्यं परिचरितमालिन्यमनसाम् ।
दाहेन सहितः सदाहः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org