________________
१५३
न मुह्यति न संशेते न स्वार्थानध्यवस्यति । न रज्यते न च दृष्टि किंतु स्वस्थः प्रतिक्षणं ॥ २३७ ।। त्रिकालविषयं ज्ञेयमात्मानं च यथास्थितं । जानन् पश्यंश्च निःशेपमुदास्ते स तदा प्रभुः ।। २३८ ॥ अनंतज्ञानहग्वीर्यवैतृष्ण्यमयमव्ययं । सुखं चानुभवत्येष तत्रातींद्रियमच्युतः ॥ २३९ ॥ ननु चाक्षैस्तदर्थानामनुमोक्तुः सुखं भवेत् । अतीन्द्रियेषु मुक्तेषु मोक्षे तत्कीदृशं सुखं ॥ २४० ॥ इति चेन्मन्यसे मोहात्तन्न श्रेयो मतं यतः । नाद्यापि वत्स त्वं वेत्सि स्वरूपं सुखदुःखयोः ॥ २४१ ।। आत्मायत्तं निराबाधमतींद्रियमनश्वरं । घातिकर्मक्षयोद्भूतं यत्तन्मोक्षसुखं विदुः ।। २४२ ।। यत्तु सांसारिकं सौख्यं रागात्मकमशाश्वतं । स्वपरद्रव्यसंभूतं तृष्णासंतापकारणं ॥ २४३ ॥ मोहद्रोहमदनोधमायालोभनिबंधनं । दुःखकारणं बधस्य हेतुत्वाद्दुःखमेव तत् ।। २४४ ॥ तन्मोहस्यैव माहात्म्यं विपयेभ्योऽपि यत् सुखं । यत्पटोलमपि स्वादु श्लेष्मणस्तद्विमितं ॥ २४५ ॥ । यदन चक्रिणां सौख्यं यच्च खर्गे दिवौकसां । ' कलयापि न तत्तुल्यं सुखस्य परमात्मनां ॥ २४६ ॥
શુદ્ધ દશામાં આ આત્મા નથી મોહ કરતે, નથી સશય કરતા, નથી રેય પદાર્થોમાં ભ્રમભાવ રાખતો, નથી રાગ કરતો કે નથી ષ કરતો, પરંતુ પ્રતિસમય પોતાના સ્વરૂપમાં લીન રહે છે. ત્રણે કાળના સર્વ જાણવા ગ્ય પદાર્થોને તથા પિતાને પણ તેથારૂપ જાણે છે, દેખે છે ત્યારે તે પ્રભુ ઉદાસીના વીતરાગ બની રહે છે.