________________
૨૩૬
મંત્રદિવાકર ही ही हृद्यकबीजे शशि-रुचि-कमले कल्पविस्पष्टशोभे, भव्ये भव्यानुकले शुभमतिवरदे विश्ववन्द्याध्रिपद्म । : पझे पद्मोपविष्टे प्रणतजनमनोमोद-सम्पादयित्रि, ... प्रोत्फुल्लज्ञानमूले हरिहरनिमिते देवि ! संसारसारे ॥ १॥ ऐ ऐ ऐ जाप्यतुष्टे हिमरुचि-मुकुटे वल्लकीव्यग्रहस्ते, मातर्मातन्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् । विद्ये वेदान्तवेद्ये श्रुतिपरिपठिते मोक्षदे मुक्तिमार्ग, मार्गातीतस्वरूपे भव मम वरदे शारदे शुभ्रहारे ।।२।। धी धीधी धारणाख्ये धृति-मति-नुतिभिर्नामभिःकीत्तनीये, नित्येऽनित्ये निमित्ते मुनिजननमिवे नूतने वै पुराणे । पुण्ये पुण्यप्रभावे हरिहरनमिते पूर्णतत्त्वस्वरूपे, मन्त्रे मन्त्रार्थतत्त्वे ! मति-मति-मतिदे माधवप्रीतिनादे ॥ ३॥ क्लीं क्लीं क्लीं सुस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते, सन्तुष्ठाकारचित्ते स्फितमुखि सुभगे जम्भणि स्तम्भनीये। मोहे मुग्धप्रबोधे मम कुरु कुमति-ध्वान्त-विध्वं समीक्ष्ये, . गी-गौर्वाग्भारतीत्वं कविधृतरसने सिद्धिदे सिद्धसाध्ये ।।४।। सौं सौं सौं शक्तिबीजे कमलभवमुखाम्भोजमर्तिस्वरूपे, -रूपेऽरूपप्रकाशे सकलगुणमये निर्गुणे निर्विकल्पे. । न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे जाप्यविज्ञानतुष्टे, विश्वे विश्वान्तराले सुरवरनमिते निष्कले नित्यशुद्धे ।। ५ ।। श्री श्री श्री स्तौम्यहं त्वां मम खलु रसनां मा कदाचित् त्वजत्वं, -मा मे बुद्धिर्विरुद्धा अवतु न च मनो यातु मां देवि ! पापम् ।