________________
प्रमाणनयतत्त्वालोकसूत्राणि ६४. मरणधर्माऽयं रागादिमत्त्वात् मैत्रवदिति संदिग्धसाधनधर्मा । २९३ ६५. नायं सर्वदर्शी रागादिमत्त्वात् मुनिविशेषवदिति सन्दिग्धोभयधर्मा । २९३ ६६. रागादिमान् विवक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवदित्यनन्वयः । २९३ . ६७. अनित्यः शब्दः कृतकत्वाद् घटवदित्यप्रदर्शितान्वयः । २९३ ६८. अनित्यः शब्दः कृतकत्वात् , यदनित्यं तत् कृतकं घटवदिति विपरीतान्वयः ।
२९४
६९. वैधयेणापि दृष्टान्ताभासो नवधा । २९४ ७०, असिद्धसाध्यव्यतिरेकोऽसिद्ध साधनव्यतिरेकः, असिद्धोभयतिरेकः, सन्दिग्ध
साध्यव्यतिरेकः, संदिग्धसाधनव्यतिरेकः, सन्दिग्धोभयव्यतिरेकोऽव्यतिरेकोऽप्रद
शितव्यतिरेको विपरीतव्यतिरेकश्च । २९४ ७१. तेषु भ्रान्तमनुमानं प्रमाणत्वात् यत् पुनर्भ्रान्तं न भवति न तत् प्रमाणं यथा
स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः स्वप्नज्ञानात् भ्रान्तत्वस्यानिवृत्तेः । २९५ ७२. निर्विकल्पकं प्रत्यक्ष प्रमाणत्वाद् यत् तु सविकल्पकं न तत् प्रमाण, यथा लैङ्गिक
मित्यसिद्धसाधनव्यतिरेको लैङ्गिकात् प्रमाणत्वस्यानिवृत्तेः । २९५ ७३. नित्यानित्यः शब्दः सत्त्वात्, यस्तु न नित्यानित्यः स न संस्तद्यथा स्तम्भ इत्य
सिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः । २९५. ७४. असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वात् , यः सर्वज्ञः आप्तो वा स .
क्षणिकैकान्तवादी, यथा सुगत इति सन्दिग्धसाध्यव्यतिरेकः सुगतेऽसर्वज्ञता- .
नाप्तत्वयोः साध्यधर्मयोावृत्तेः सन्देहात् । २९५ ७५. अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वाद् , यः पुनरादेयवचनः स .
वीतरागस्तद्यथा शौद्धोदनिरिति, सन्दिग्धसाधनव्यतिरेकः शौद्धोदनौ रागादि- .
मत्त्वस्य निवृत्तेः संशयात् । २९६ ७६. न वीतरागः कपिलः करुणाऽऽस्पदेष्वपि परमकृपयाऽनर्पितनिजपिशितशकलत्वात् ,
यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितनिजपिशितशकलस्तद्यथा- ...... तपनबन्धुरिति सन्दिग्धोभयव्यतिरेक इति तपनबन्धौ वीतरागत्वाभावस्य करुणाऽऽस्पदेष्वपि परमकृपयाऽनर्पितनिजपिशितशकलत्वस्य च व्यावृत्तेः सन्देहात् ।
२९६ ७७. न वीतरागः कश्चिद्विवक्षितपुरुषो वक्तृत्वात् , यः पुनर्वीतरागो न स वक्ता, ... - यथोपलखण्ड इत्यव्यतिरेकः । २९७