________________
प्रमाणनयंतत्त्वालौकसूत्राणि
४१. प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतविलक्षण आत्मा । २४३ ४२. अनुमाननिराकृतसाध्यधर्मविशेषणो यथा नास्ति सर्वज्ञो वीतरागो वा । २४३ ४३. आगम निराकृत साध्यधर्मविशेषणो यथा जैनेन रजनिभोजनं भजनीयम् | २४४ ४४. लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः । २४५
३९
४५. स्ववचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम् | २४६ ४६. अनभः प्सित साध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कशा दिरशाश्वतिक एवं वेति वदतः । २४८
४७. असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः । २४९
४८. यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः । २४९
४९. स द्विविध उभयासिद्धोऽन्यतरासिद्धश्व । २४९
५०. उभयासिद्धो यथा परिणामी शब्दश्चाक्षुषत्वात् । २४९
५१. अन्यतरासिद्धो यथा अचेतनास्तरको विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वात् ।
२५०
५२. साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः । २७५ ५३. यथा नित्य एवं पुरुषोऽनित्य एव वा प्रत्यभिज्ञानादिमत्त्वात् । २७५ । ५४. यस्यान्यथानुपपत्तिः संदिह्यते सोऽनैकान्तिकः । २८१
५५. सद्वेधा -निर्णीत विपक्षवृत्तिकः संदिग्धविपक्षवृत्तिकश्च । २८१ ५६. निर्णीत विपक्षवृत्तिको यथा - नित्यः शब्दः प्रमेयत्वात् । २८२ ५७. सन्दिग्धविपक्षत्तिको यथा- विवादपदापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् । २८३
५८. साधर्म्येण दृष्टान्ताभासो नवप्रकारः । २९१ ५९. साध्यधर्मविकलः, साघनधर्मविकलः, उभयधर्मविकलः, संदिग्धसाध्यधर्मा, संदि - ग्घसाघनधर्मा, सन्दिग्धोभयधर्मा, अनन्वयोsप्रदर्शितान्वयो विपरीतान्वयश्चेति ।
२९१
६०. तत्रापौरुषेयः शब्दोऽमूर्तत्वाद् दुःखवदिति साध्यधर्मविकलः । २९२ ६९. तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्मविकलः । २९२
६२. कलशवदित्युभयधर्मविकलः । २९२
६३. रागादिमानयं वक्तृत्वाद देवदत्तवदिति संदिग्धसाध्यधर्मा । २९३