________________
प्रमाणनयतत्त्वालोकसूत्राणि २०. न च क्रिया क्रियावतः सकाशादाभिन्नैव, भिन्नैव वा, प्रतिनियतक्रियाक्रिया___वद्भावभङ्गप्रसंगात् । २३३ २१. संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः, परमार्थतः स्वाभिमतसिद्धि
विरोधात । २३५ . २२. ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्तव्यः ।
२३६
२३. प्रमाणस्य स्वरूपादिचतुष्टयाद् विपरीतं तदाभासम् । २३६ २४. अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पकसमारोपाः प्रमाणस्य
स्वरूपाभासाः । २३७ २५, यथा सन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्शनविपर्ययसंशयानव्यवसायाः ।
. २३७ २६. तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः । २३७ २७. सांव्यहारिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् । २३७ २८. यथाऽम्वुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानं च । २३८ २९. पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् । २३८ ३०. यथा शिवाक्ष्यस्य राजर्षेरसंख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानम् । २३८ ३१. अननुभूते वस्तुनि तदिति ज्ञानं स्मरणाभासम् । २३९ ३२. अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा । २३९ ३३. तुल्ये पदार्थ स एवायमिति एकस्मिंश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञा
नाभासम् । २३९ ३४. यमलकजातवत् । २३९ ३५. असत्यामपि व्याप्तौ तदवभासस्तकाभासः । २४० ३६. स श्यामो मैत्रतनयत्वादित्यत्र यावान्मत्रतनयः स श्याम इति यथा । २४० ३७. पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् । २४१ ३८. तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्म विशेषणास्त्रयः पक्षाभासाः। २४१ ३९. प्रतीतसाध्यधर्मविशेषणो यथाऽऽर्हतान् प्रत्यवधारणवन परेण प्रयुज्यमानः
समस्ति जीव इत्यादिः । २४३ | ४०. निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलोकस्ववचनादिभिः साध्यधर्मस्य
निराकरणादनेकप्रकारः । २४२ .
m