________________
प्रमाणनयतत्त्वालोकसूत्राणि ६. विशेषोऽपि द्विरूपो गुणः पर्यायश्च । २१० ७गुणः सहभावी धर्मों यथाऽऽत्मनि विज्ञानव्यक्तिशक्त्यादिः । २११ ८. पर्यायस्तु क्रमभावी यथा तत्रैव सुखंदुःखादिः । २११
.
३
षष्ठः परिच्छेदः
[द्वितीयो भागः] १. यत् प्रमाणेन प्रसाध्यते तदस्य फलम् । २२६ २. तद् द्विविधमानन्तर्येण पारम्पर्येण च । २२६ ३. तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् । २२६
४. पारम्पर्येण केवलज्ञानस्य तावत् फलमौदासीन्यम् । २२६ ...५. शेषप्रमाणानां पुनरुपादानहानोपेक्षावुद्धयः । २२७
६. तत् प्रमाणतः स्याद्भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः । २२८
७. उपादानबुद्धयादिना प्रमाणाद् भिन्नेन व्यवहितफलेन हेतोय॑भिचार इति न . विभावनीयम् । २२८
८. तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः । २२८ ९. प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः । २२८ १०. यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिभिरस्खलित
मनुभवात् । २२९ ११. इतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रसज्येत ।२२९ १२. अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षात्फलेन साधनस्यानेकान्त इति
नाशङ्कनीयम् । २२९ ...१३. कथञ्चित्तस्यापि प्रमाणाद् भेदेन व्यवस्थानात् । २३०
१४. साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् । २३० १५. प्रमाणं हि करणाख्यं साधनं स्वपरव्यवसितौ साधकतमत्वात् । २३० १६. स्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं. फलं तु साध्यम् , प्रमाणनिष्पाद्य
त्वात् । २३१ १७. प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद् भेदः । २३२ १८. कर्तृक्रिययोः साध्यसाधकभावेनोपलम्भात् । २३२ १९. कर्त्ता हि साधकः स्वतन्त्रत्वात् , क्रिया तु साध्या कर्तृनिय॑त्वात् । २३२
ना