________________
प्रमाणनयतत्त्वालोकसूत्राणि ३५. क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्चावाचक च ध्वनिर्नान्यथेत्यपि
मथ्या । १६४ ३६. विधिमात्रादिप्रधानतयाऽपि तस्य प्रतीतेः । १६४ ३७. एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गादसगतैव
__सप्तभङ्गीति न चेतसि निधेयम् । १६५ ३८. विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव संभवात् ।
३९. प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् । १६६ ४०, तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् । १६६ .४१. तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात् । १६६ ४२. तस्यापि सप्तप्रकारस्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः ।
१६७ ४३. इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च । १६७ ४४. प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिर भेदवृत्तिप्राधान्यादभेदोपचाराद्
वा योगपद्येन प्रतिपादकं वचः सकलादेशः । १६७ ४५. तद्विपरीतस्तु विकलादेशः । १७२ ४६. तद् द्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेपस्वरूपसामर्थ्यतः प्रति
नियतमर्थमवद्योतयति । १७३ ४७. न तदुत्पत्तितदाकारताभ्यां तयोः पार्थक्येन सामस्त्येन च व्यभिचारोपलम्भात् ।
१७४
पञ्चमः परिच्छेदः
[ द्वितीयो भागः] १. तस्य विषयः सामान्य-विशेषाद्यनेकान्तात्मकं वस्तु । १७७ २. अनुगतविशिष्टाकारप्रतीतिविषयत्वात् प्राचीनोत्तराकारपरित्यागोपादानावस्थान
स्वरूपपरिणत्याऽर्थक्रियासामर्थ्यघटनाच्च । १८५ ३. सामान्यं द्विप्रकारम्-तिर्यक्सामान्यमूर्ध्वतासामान्यं च । १८७ ४. प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यं शबलशावलेयादिपिण्डेषु गोत्वं यथा ।
१८७ ५. पूर्वापरपरिणामसाधारणं द्रव्यमूर्खतासामान्यं कटककङ्कणाधनुगामिकाञ्चन
वत् । १९१,