________________
प्रमाणनयतत्त्वा लोकसूत्राणि
३५
१३. सर्वत्रायं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति । १५२ १४. एकत्र वस्तुन्ये कै कधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाकूप्रयोगः सप्तभङ्गी । १५३ १५. तद्यथा – स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । १५५ १६. स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः । १५६
१७. स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः । १५८ १८. स्यादवक्तव्यमेवेति युगपाद्विधिनिषेधकल्पनया चतुर्थः । १५९
१९. स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च
पञ्चमः । १६०
२०.. स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । १६१
२१. स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युग - पद्विधिनिषेधकल्पनया च सप्तम इति । १६१
२२. विधिप्रधान एव ध्वनिरिति न साधु । १६२
२३. निषेधस्य तस्मादप्रतिपत्तिप्रसक्तेः । १६२
२४. अप्राधान्यन्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् । १६२
२५. क्वचित् कदाचित् कथञ्चित् प्राधान्येनाप्रतिपन्नस्य तस्याप्राधान्यानुपपत्तेः ।
१६२
२६. निषेधप्रधान एव शब्द इत्यपि प्रागुक्तन्यायादपास्तम् । १६३
२७. क्रम, दुभयप्रधान एवायमित्यपि न साधीयः । १६३. २८. अस्य विधिनिषेधान्य तरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् । १६३ २९. युगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासाविति च न चतुरस्रम् । १६३ ३०. तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् । १६३
३१. विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एव स इत्येकान्तोऽपि न कान्तः । १६४
३२. निषेधात्मनः सह द्वयात्मनश्चार्थस्य वाचकत्वावाचकत्वाभ्यामपि शब्दस्य प्रती
यमानत्वात् । १६४
३३. निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवा चक एवायमित्यप्यवधारणं न रमणीयम् । १६४
३४. इतरथाऽपि संवेदनात् । १६४