________________
प्रमाणनयतत्वालोकसूत्राणि १००, पूर्वचरानुपलब्धियथा-नोद्गमिष्यति मुहूर्तान्ते स्वातिनक्षत्रं.चित्रोदयादर्शानात् । ७७ १०१. उत्तरचरानुपलव्धिर्यथा-नोदगमत् पूर्वमद्रपदा मुहूर्तात् पूर्वमुत्तरंभद्रपदोद्गमा- ..
नवगमात् । ७७ १०२. सहचरानुपलव्धिर्यथा-नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनांनुपलब्धेः । ७७ १०३. विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा । ७८ १०४. विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भभेदात् । ७८ १०५. विरुद्धकार्यानुपलब्धियथाऽत्र शरीरिणि रोगातिशयः समस्ति; नीरोगव्यापारानु
पलव्धेः । ७८ १०६. विरुद्धकारणानुपलब्धिर्यथा-विद्यतेऽत्र प्राणिनि कष्टम् , इष्टसंयोगाभावात् । ७९ १०७. विरुद्धस्वभावानुपलब्धिर्यथा-वस्तुजातमनेकान्तात्मकमेकान्तस्वभावानुपलम्भात् ।७९ १०८. विरुद्धव्यापकानुपलब्धियथा-अस्त्यत्र छाया औष्ण्यानुपलब्धेः । १०९. विरुद्धसहचरानुपलब्धियथा-अस्त्यस्य मिथ्याज्ञानम् , सम्यग्दर्शनानुपलब्धेः। ८०
चतुर्थः परिच्छेदः
[द्वितीयो भ...] १. आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । ८१ २. उपचारादाप्तवचनं च । ८१ ३. समस्त्यत्र प्रदेशे रत्ननिधानम् , सन्ति रत्नसांनुप्रभृतयः । ८६ ४. अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते से माप्तः । ८७ ५. तस्य हि वचनमविसंवादि भवति । ८८ ६. स च द्वेधा-लौकिको, लोकोत्तरश्चं । ८८ ७. लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः । ८९ ८. वर्ण-पद-वाक्यात्मकं वचनम् । १०३ ९. अकारादिः पौद्गलिको वर्णः । १०४ १०. वर्णानामन्योऽन्यापेक्षाणां निरपेक्षा संहतिः पदम्, पदानां तु वाक्यम् । ३२१ ११. स्वाभाविकसामर्थ्यसमयाभ्यामर्थवोधनिबन्धनं शब्दः । १२२. १२. अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवद् यथार्थायथार्थत्वे पुनः पुरुषगुणदोषा
वनुसरतः । १५०
१२.
.