________________
પ્રકરણ દશમું ધર્મભાવના
उपजाति दानं च शील च तपश्च भावो, धर्मश्चतुर्धा जिनवान्धवेन । निरूपितो यो जगतां हिताय, स मानसे मे रमतामजस्रम् ॥ क ॥ १ ॥
इन्द्रवज्रा सत्यक्षमामार्दवशौचसङ्गत्यागार्जवब्रह्मविमुक्तियुक्तः । यः संयमः किं च तपोऽवगूढश्चारित्रधर्मों दशधायमुक्तः ॥ ख ॥ २ ॥ यस्य प्रभावादिह पुष्पदन्तौ, विश्वोपकाराय सदोदयेते । ग्रीष्मोष्मभीष्मामुदितस्तडित्वान् , काले समाश्वासयति क्षितिं च ॥ ग ॥ ३ ॥ उल्लोलकल्लोलकलाविलासै प्लावयत्यम्बुनिधिः क्षितिं यत् ।। न घ्नन्ति यद्वयाघ्रमरुद्दवाद्याः, धर्मस्य सर्वोऽप्यनुभाव एपः ॥ घ ॥ ४ ॥
शार्दूलविक्रीडितम् यस्मिन्नैव पिता हिताय यतते भ्राता च माता मुतः, सैन्यं दैन्यमुपैति चापचपल यत्राफल दोवलम् । तस्मिन् कष्टदशाविपाकसमये धर्मस्तु संवर्मितः, ' सज्जः सज्जन एप सर्वजगतस्त्राणाय बद्धोद्यमः त्रैलोक्यं सचराचरं विजयते यस्य प्रसादादिदं, योऽत्रामुत्र हितावहस्तनुभृतां सर्वार्थसिद्धिप्रदः । येनानर्थकदर्थना निजमहः सामर्थ्यतो व्यथिता, तस्मै कारुणिकाय धर्मविभवे भक्तिप्रणामोऽस्तु मे ॥ च ॥ ६ ॥
मंदाक्रान्ता प्राज्य राज्य सुभगदयिता नन्दना नन्दनानां, रम्य रूपं सरसकविताचातुरी मुस्वरत्वम् । नीरोगत्वं गुणपरिचयः सज्जनत्वं सुवुद्धिं, किं नु ब्रूमः फलपरिणति धर्मकल्पद्रुमस्य ? ॥ छ ॥ ७ ॥