________________
गेयाष्टक
(ध्रुवपद)
विभावय विनय तपोमहिमान, बहुभवसञ्चितदुष्कृतममुना, लभते लघु लघिमानम् , विभावय विनय तपोमहिमान याति घनापि घनाघनपटली, खरपवनेन विरामम् । भजति तथा तपसा दुरिताली, क्षणभङ्गुरपरिणामम् ॥ वि० ॥ २ ॥ वाञ्छितमाकर्पति दुरादपि, रिपुमपि व्रजति वयस्यम् । तप इदमाश्रय निर्मलभावादागमपरमरहस्यम् ॥ वि० ॥ ३ ॥ अनशनमूनोदरतां वृत्तिहास रसपरिहारम् । भज सालीन्य कायक्लेश, तप इति वाह्यमुदारम् ॥ वि० ॥ ४ ॥ प्रायश्चित्त वैयावृत्त्य', स्वाध्याय विनय च । कायोत्सर्ग शुभध्यान, आभ्यन्तरमिदम च ॥ वि० ॥ ५ ॥ शमयति ताप गमयति पाप', रमयति मानसहंसम् । हरति विमोहं दरारोहं, तप इति विगताशंसम् ॥ वि० ॥ ६ ॥ संयमकमलाकार्मणमुज्ज्वलशिवसुखसत्यंकारम् । चिन्तितचिन्तामणिमाराधय, तप इह वारंवारम् ॥ वि० ॥ ७ ॥ कर्मगदौपधमिदमिदमस्य च, जिनपतिमतमनुपानम् । विनय समाचार सौख्यनिधानं, शान्तमुधारसपानम् ॥ वि० ॥ ८ ॥
, આ પાચમી અન્યત્વભાવનાના ગેય અષ્ટકનો જે લય છે તેમાં જ આ અટક પણ ગાઈ શકાય છે મસ્ત રાગ છે અને ઠેકા સાથે ગાવા યોગ્ય છે