SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ प्रमाणफलम् । [ ६. १९. - . જૈન—એમ પણ કહી શકશે! નહિ, કારણ કે-જે સ્વભાવના ભેદ ન હોય તા વ્યાવૃત્તિને ભેદ પણ યુક્તિસ ગત થઈ શકતા નથી. અને વળી, અપ્રમાણુ અને અફલની વ્યાવૃત્તિ દ્વારા એક જ પ્રમાણુરૂપ વસ્તુમાં પ્રમાણ અને ફુલની વ્યવસ્થા કરે છે તેમ પ્રમાણુાતર અને લાન્તરની વ્યાવૃત્તિ દ્વારા તેમાં અપ્રમાણ અને અલની પણ વ્યવસ્થા કેમ નહિ થાય ? અર્થાત્ થરો. ૧૬. ( पं० ) || ॐ नमः ॥ अथ षष्टपरिच्छेदे कथं च प्रमाणस्येत्यादि कथं न स्यादिति योगः | यथा प्रमाणस्याप्रमाणव्यावृत्त्या प्रमाणत्वव्यवस्था, यथा च प्रमाणफलस्याप्रमाणफलव्यावृत्त्या प्रमाणफलत्वव्यवस्था स्यात्, तथा प्रमाणान्तरव्यावृत्त्याऽप्रमाणत्वव्यवस्था, फलान्तरव्यावृत्त्याऽफलत्वव्यवस्था स्यात्, कथं न स्यादिति वाक्यार्थः ॥ १६ ॥ (टि०) सर्वधातादात्म्ये हीत्यादि । एकान्तेन प्रमाणफलयोरेकीभावे प्रमाणं फलं वा स्थितिमादधाति नोभयं विरोधावरोधादिति । नहि सारूप्यमिति अर्थाकारात् । अस्येति सौगतस्य । अधिगतिरिति अधिगमरूपम् । एकस्येव पदार्थस्य तदेव वस्तु प्रमाणं तदेव फलम् । कथं चेति यथाऽप्रमाणव्यावृत्त्या प्रमाणम्, अफलव्यावृत्त्या फलम् 1 तथा प्रमाणान्तरव्यावृत्त्या अप्रमाणम्, फलान्तरव्यावृत्त्या अफलम् । न च सर्वमतेषु प्रमाणत्वं फलत्वं च समानं भिन्नभिन्नस्य प्रमाणस्य फलस्य च स्वीकारात् । तथाहि - प्रत्यक्षानुमाने द्वे प्रमाणे अधिगमरूपं प्रमाणफलमिति सौगताः । प्रत्यक्षानुमानोपमानशब्दानि चत्वारि प्रमाणानीति चाक्षपादाः । प्रत्यक्षानुमानागमानि त्रीणि प्रमाणानीति काणादाः । एतान्येव त्रीणि प्रमाणानीति कपिलाः । पूर्वं पूर्वं प्रमाणमुत्तरमुत्तरं फलमिति जैमिनीयप्रभृतयः । प्रत्यक्षपरोक्षे हे प्रमाणे अज्ञाननिवृत्तिः फलमिति निरपवादस्याद्वादवादावदाताः ॥१६॥ २३२ - अथ प्रसङ्गतः कर्तुरपि सकाशात् प्रस्तुतफलस्य भेदं समर्थयन्ते— प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिदभेदः ||१७|| $१ कर्तुरात्मनः किं पुनः प्रमाणादित्यपिशब्दार्थः ॥ १७॥ अत्र हेतुमाहुः कर्तृ क्रिययोः साध्यसाधकभावेनोपलम्भात् ||१८|| ये साध्यसाधकभावेनोपलभ्येते, ते भिन्ने, यथा देवदत्तदारुच्छिदिक्रिये, साध्यसाधकभावेनोपलभ्येते च प्रमातृस्वपरव्यवसितिलक्षणक्रिये ॥ एतद्धेत्वसिद्धतां प्रतिषेधन्ति - कर्त्ता हि साधकः, स्वतन्त्रत्वात् क्रिया तु साध्या, कर्तृनिर्वयत्वात् ॥१९॥ स्वमात्मा तन्त्रं प्रधानमस्येति स्वतन्त्रस्तद्भावस्तत्त्वं तस्मात् । यः क्रियायां स्वतन्त्रः स साधको, यथा दारुच्छिदायां व्रश्चनः, स्वतन्त्रश्च स्वपरव्यवसितिक्रियायां प्रमातेति । स्वतन्त्रत्वं कर्तुः कुतः सिद्धम् ? इति चेत् । क्रियासिद्धावपरायत्ततया प्राधान्येन विवक्षितत्वात् । स्वपरव्यवसितिलक्षणा क्रिया पुनः साध्या, कर्तृनिर्वर्य
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy