________________
४.९]
शब्दनित्यत्वनिरासः। છે. માટે કમથી ઉત્પન્ન થનાર તે તે ગકારાદિ પર્યાયથી સંપન્ન ભાષા દ્રવ્યરૂપ ગોશબ્દ જ સદશ પરિણામવાળે છે તેને વાચક માન જોઈએ. આ પ્રમાણે શબ્દ પરિણમી (અનિત્ય) સિદ્ધ થવાથી શબ્દમાં નિત્યત્વ સાધક અથપત્તિ પ્રમાણ પણ વ્યર્થ થઈ ગયું જાણવું.
(प.) अथ शब्दत्वमित्यादि प्रभाकर एव नैनं प्रनयति । तदभवेदिति किं सामान्य वाचकं भवेदित्यर्थः। प्रभाकर 'एवोपन्यस्तानां क्रमेण वाचकत्वं निरस्यति आद्यपक्षे इत्यादिना। एकस्या इति एकाकिन्याः। असम्भवादित्यतोऽग्रे 'किं पुनरस्ति' इति गम्यम् ।
___ अत्रोच्यते इति जैनेन । अयमिति तोदोपलम्भः । एष इति अकारादिवर्णानामपि वस्तुत ऐक्यमेव । परं व्यञ्जकभेदादेव भेदोपलम्भ इत्यपि प्राप्नोति । अथ यथेत्यादि परः। प्रतीतिरिति प्रत्यवमर्शः । एकप्रत्यवमर्शोत्पत्तरिति अकारादिष्वप्येकप्रत्यवमर्शोत्पत्तेः । सामान्यनिमित्तक एवेति वर्णत्वनिमित्तक एव । तथाऽस्त्विति सामान्यनिमित्तक एवास्तु । अकारेकारादाविति परस्परमिति ज्ञेयम् । विशेष इति भेदो वैसदृश्यमित्यर्थः । एवं तहींत्यादि सूरिः। सहर्पमित्यादि पद्यांशः। पद्यं त्विदम् -
कथाशेषः कर्णोऽजनि धनकृशा काशिनगरी सहर्ष हेषन्ते हरिहरिति हम्मीरहरयः सरस्वत्या लेषप्रवणलवणोदप्रणयिनि ।
प्रभासस्य क्षेत्रे मम हृदयमुत्कण्ठितमदः ॥१॥" तत इति कण्ठयहकारात् । भिन्नोऽयमिति उरस्यहकारः । न चेत्यादि जैनः । तत्रेति गकारे । कृतोत्तरमिति ‘कस्य किं कुर्वतोऽमी' इत्यत्र । अकारेकारादावपीत्यादिना जैनः प्रसङ्गमुत्पादयति । स स विशेष इति परस्परवैसदृश्यलक्षणः। तद्गत एवेति व्यञ्जकगत एव । अस्त्विति परमार्थेन पुनरैक्यमेव । भेदावभास इति पार्थक्यावभासः। विनापीति परस्परं भेदावभासं विनापि । तदभेदप्रतिभासवदिति सर्षपमेदप्रतिभासवत् । तदादीति गकारादि । नित्यत्वाप्रसिद्धाविति शब्दस्य । तस्मादिति यत् तत्त्वं तद्वच्मि । क्रमोत्पदिपिण्वत्यनेन अभिव्यज्यमानत्वाभावेन कार्यत्वमाह ।
(टि०) अथ शब्दत्वमित्यादि ॥ तदिति सामान्यम् । आद्यपक्षे इति शब्दत्वे सामान्ये वस्तुवाचके सति । प्रतिनियतेति त्रिभुवनभुवनान्तर्वतिसमस्तपदार्थप्रथनं युगपदेव जायते, शब्दत्वस्य सर्वत्र समानत्वात् । तदाधारेति तस्य गोशब्दत्वसामान्यस्याश्रयसंपन्नायाः ॥ एतदिति गत्वौत्वादिकम्, न त्वपरं गोशब्दत्वमस्ति ।
(टि०) अस्तु तार्तीयीक इत्यादि । ततेदेति गकारमेददर्शनात् । अयमिति मेदोपलम्भः । एप इति व्यजकमेदाद् मेदोपलम्भः । अयमितीति एकप्रत्यवमर्शः । तथास्त्विति। सामान्यनिमित्तक एव प्रत्यवमर्शो भवतु । तेषामिति सर्वेषां गकाराणाम् । तुल्यस्थानेति कण्ट्यत्वात् । "अवर्णकवर्गा हविसर्जनीयाः कण्ठ्याः ” [कातन्त्रसंधौ प्रथमे] इति वचनात् । वह्नि-जिह्मेति उरस्य-सामान्यकण्ठयहकारात् अनुनासिकान्तस्थासंयोगवतो हकारस्य भेदेन प्रतीतेः। तस्य उरस्यत्वात् ॥ यदुक्तम्
१ एवेति न्यस्तानां-ल। न्यस्तं क्र-क। २ भावे का ल। ३ गोशब्दत्वस्य सामान्यसाश्र० डे ३ ।