________________
शब्दनित्यत्वनिरासः ।
[४. ९વળી, પર્વતમાં ધૂમવ્યક્તિ અગ્નિને બે કઈ રીતે કરાવશે ? અર્થાત્ જે શબ્દમાં સંબંધનું ગ્રહણ થયું હતું તે શબ્દ તે તે જ કાળમાં નાશ પામ્ય એટલે વ્યવહારકાળમાં જેમાં સંબંધનું ગ્રહણ થયું જ નથી એવો બીજો શબ્દ કઈ રીતે બોલી શકાય ? વિગેરે કહેલ છે. એ જ ન્યાયે જે ધૂમમાં સંબંધનું ગ્રહણ થયેલ છે તે પર્વતમાં નથી તે પર્વતમાં રહેલ ધૂમ પર્વતગત અગ્નિને બોધક કઈ રીતે થશે?
મીમાંસક–પૃમસ્વરૂપ સામાન્ય જ બોધક છે. જૈન-તે વાચકને પણ સામાન્ય જ માન.
(प.) अनित्यत्वे इति शब्दस्यानित्यत्वेऽङ्गीक्रियमाणे । तदेवेति उच्चारणानन्तरम् । अन्य एवेति शब्दः । नित्यतैकतापत्तरिति नित्यतैकतयोरापत्तिः । अन्यथेति नित्यतैकते विना । गृहीतसम्बन्ध इति यदि हि पदार्थस्यैक्यं न स्यात् तदा वाहुलेये गृहीतसम्बन्धः शब्दः शाबलेये कथं प्रवत्तेत विलक्षणत्वात् तयोः ? अथ च प्रवर्त्तते । तस्मादैक्य नित्यत्वं चाङ्गीकर्तव्यम् । अनित्यत्वेऽङ्गीक्रियमाणे बाहुलेये गृहीतसम्बन्धः शब्दो वाहुलेये विनश्यति सति विनष्ट एव । ततः शाबलेये कथमगृहीतसम्बन्धः प्रतिपतिं कुरुते । तस्मान्नित्योऽर्थः ।
सामान्यस्यैवेत्यादि प्रभाकरः । शब्दार्थत्वादिति वाच्यत्वात् । न लम्बेत्यादि जैनः । सामानाधिकरण्याभावप्रसक्तरिति । यदि हि सामान्यं शब्दार्थः स्यात् तदा नपुंसकत्वं प्राप्नोतीति भावः । एतानि हि विशेषस्य विशेपणानि। विशेपेण सह सामानाधिकरण्याभावप्रसक्तरिति ज्ञेयम् । तत इत्यादि जैनः । स इति शब्दार्थः। अन्वेतीति सामान्यविशेषरूपत्वात् तस्य । स्यादिति कथञ्चित् । कथमित्यादि जैनः। धूमत्वेत्यादि प्रभाकरः । वाचकमपीत्यादि जैनः।
(टि.) याप्यर्थापत्तिरित्यादि । तत्रेति अर्थापत्तौ । ल तदैवेति शब्दस्तत्कालमेव विनष्टः, अनित्यत्वात् । अयमिति शब्दः सर्थस्यापीति वाहुलेयादिपदार्थस्य । अन्यथेति पदार्थस्यानित्यत्वे । शावलेयादिग्विति पूर्वमदृष्टेषु तत्कालोत्पन्नेयु वा। सामानाधिकरण्येति उभयोः पदयोर्विशेषणविशेष्यभावः सामानाधिकरण्यम् । स चेति शब्दार्थः। एकान्तेन [न] नित्यत्वेनान्वितो भवतीति नित्य एवाशीकरणीयो न स्यात् ।।
__ अथ शब्दत्वम्, गोशब्दत्वम्, क्रमाभिव्यज्यमानगत्वौत्वादिकं वा तद्भवेत् । आचपक्षे प्रतिनियतार्थप्रतिपत्तिर्न स्यात्, सर्वत्र शब्दत्वस्याविशेषात् । गोशब्दत्वं तु नास्त्येव, गोशव्दव्यजेरकत्त्याः कस्याश्चित्तदाधारभूताया असंभवात् । क्रमेण व्यज्यमानं हि वर्णद्वयमेवैतत् । क्रमाभिव्यच्यमानेत्यादिपक्षोऽप्यसंभवी, गत्वादिसामान्यस्याविद्यमानत्वात् , सर्वत्र गकारादेरेकत्वात् ।
अत्रोच्यते । अस्तु तातीयीकः कल्पः । न च गकारादेरैक्यम्, गर्गभर्गवर्गस्वर्गादो भूयांसोऽगी गकारा इति तदोपलम्भात् । व्यञ्जकभेदादयमिति चेत्, अकाराचशेपशेष वन्येपोऽस्त्वित्येक एव वर्ग: स्यात् । अथ यथा अयमपि गकारः, अयमपि गकारः-इयेकाकारा प्रतीतिः, तथा नाकारावशेषवर्णेवपीति चेत् । नैवम् ।