________________
ભગવાન ઉમાસ્વાતિ સ્વરચિત પ્રશસ્તિ
"वाचकमुख्यस्य शिवश्रियः प्रकाशयशसः प्रशिष्येण। . . शिष्येण घोषनन्दिक्षमणस्यैकादशाङ्गविदः ॥१॥ वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्य। शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः ।।२।। न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कौभीषणिना स्वातितनयेन वात्सीसुतेनाय॑म् ॥३॥ अहंद्वयनं सम्यग्गुरुक्रमेणागतं समुपधार्य। दुःखातं च दुरागमविहतमति लोकमवलोक्य ।।४।। इदमुच्चै गरवाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ॥५॥ यस्तत्त्वाधिगमाख्यं ज्ञास्यति च करिष्यते च तत्रोक्तम् । सोऽव्याबाधसुखाख्य प्राप्स्यत्यचिरेण परमार्थम्" ॥६॥