________________
૨૪પ
तथा ईतिर्धान्याधुपद्रनकारी प्रचुरो मूषिकादिप्राणिगणो न स्यादिति षष्ठः ॥
तथा मारिरीत्पातिक सर्वगत मरण न स्यादिति सप्तमः ॥ तथा अतिवृष्टिनिरन्तरं वर्षण न स्यादित्यष्टमः ॥ तथा अवृष्टिः सर्वथा वृष्टयभावो न स्यादिति नवमः । दुर्भिक्ष भिक्षाणामभावो न स्यादिति दशमः ॥ तथा स्वराष्ट्रात् परराष्ट्राच्च भय न स्यादित्येकादशः ।।
एवमेकादश अतिशयाः कर्मणां ज्ञानावरणीयादीना चतुर्णा घातात् क्षयात् जायत्ते इति ॥६०॥
देवकृतानतिशयानाह - खे धर्मचक्रं चमराः सपाद -
पीढ मृगेन्द्रासनमुज्ज्वल च । छत्रत्रय रत्नमय ध्वजोऽहि -
न्यासे च चामीकरपङ्कजानि ॥६१।। वप्रत्रय चारु चतुर्मुखाङ्गता
चैत्यद्रुमोऽधोवदनाश्च कण्टकाः । मानतिर्दुन्दभिनाद उच्चकै -
__ तोऽनूकूलः शकुनाः प्रदक्षिणाः ।।६२।। गन्धाम्वुवर्ष वहुवर्णपुष्प -
वृष्टिः कचश्मश्रुनखाप्रवृद्धिः । चतुर्विधाऽमय॑निकायकोटि -
जघन्यभावादपि पार्वदेशे ॥६३।। ऋतूनामिमिन्द्रियार्थानामनुकूलत्वमित्यमी ।
एकोनविंशतिर्देव्या चतुस्विंशच्च मीलिताः ॥६४॥ खे आकाशे धर्मप्रकाशक चक्र धर्मचक्र भवतीति देवकृतः प्रथमोऽतिशयः । तथा खे चमरा इति द्वितीयः ।