________________
२४४
आहारोऽभ्यवहरण नीहारो मूत्रपुरीषोत्सर्गस्तयोविधिः क्रिया न दृश्यते इति अदृश्य मांसचक्षुषा न पुनरवध्यादि लोचनेन पुसा । यदाहुः --' पच्छन्ने आहारनीहारे अदिस्से मसचक्खुणा' एष चतुर्थः ॥ एते चत्वारोऽपि जगतोऽप्यतिशेरते तीर्थकरा एभिरित्यतिशयाः, सहोत्था: सहजन्मानः ।।
अथ कर्मक्षयजानतिशयानाह - क्षेत्रे स्थितिर्योजनमात्रकेऽपि
नृदेवतिर्यग्जनकोटिकोटे: । वाणीनृतिर्यक्सुरलोकभाषा -
सवादिनी योजनगामिनी च । भामण्डल चारु च मौलिपृष्ठे
विडम्बिताहर्पतिमण्डलश्रि ॥५६॥ साग्ने च गव्यूतिशतद्वये रुजा,
वैरेतयो मार्यतिवृष्टयवृष्टयः । दुभिक्षमन्यस्वचक्रतो भय,
स्यान्नत एकादश कर्मघातजाः ॥६०॥
योजनप्रमाणेऽपि क्षेत्रे समवसरणभुवि नृणा देवाना तिरश्चां च जनाना कोटीकोटिसख्यानां स्थितिरवस्थानमिति प्रथमः कर्मक्षयजोऽतिशयः ।
वाणी भाषा अर्द्धमागधी नरतिर्यक्सुरलोकभाषया सवदति तद् भाषाभावेन परिणमतीत्येवशीला, योजनमेक गच्छति व्याप्नोतीत्येवशीला योजनगामिनी चेति द्वितीयः ।
भाना प्रभाणा मण्डल भामण्डलम्, मौलिपृष्ठे शिरःपश्चिमभागे तच्च विडम्बित दिनकरविम्बलक्ष्मीकमित्यन एक चारु मनोहरमिति तृतीयः ।
साग्रे पञ्चविंशयियोजनाधिके, गव्यूतिः क्रोशद्वयम्, गव्यूतीना शतद्वये योजनशत इत्यर्थः, रुजा रोगो ज्वरादिर्न स्यादिति चतुर्थ. ॥
तथा वैरं परस्परविरोधो न स्यादिति पञ्चमः ।