________________
अलिवानयिन्ताभार (भूस)
तेषा च देहोऽद्भुतरूपगन्धो,
निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिष तु,
गोक्षीरधाराधवल ह्यविस्रम् ॥५७।।
आहारनीहारविधिस्त्वदृश्यः
चत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्रकेऽपि,
नदेवतिर्यगजनकोटिकोटेः ॥८॥
वाणी नृतिर्यक्सुरलोकभाषा
सवादिनी योजनगामिनी च । भामण्डल चारु च मौलिपृष्ठे,
विडम्बिताहर्पतिमण्डल श्रि ॥५६॥
साने च गन्यूतिशतद्वये रुजा,
बैरेतयो मार्यतिवृष्ट्यवृष्टयः । दुभिक्षमन्यस्वचक्रतो भय,
स्यान्नत एकादश कर्मघातजाः ॥६०॥
खे धर्मचक्र चमराः सपाद
___ पीठ मृगेन्द्रासनमुज्ज्वल च । छत्रत्रय रत्नमयध्वजोऽहि. -
न्यासे च चामीकरपङ्कजानि ॥६१॥