________________
( 76 ) सप्तत्यग्रशतक्षेत्र्यान्सतोभूतान्भविष्यतः । नमामि श्रीजिनान्घातिकम-संघात-घातकान् ॥ ३ ॥ सिद्धानष्टगुणोपेतान्पंचाचारादिसंगतान् । आचार्यान्पाठकान्वंदे तथा साधूंस्तपोधनान् ॥ ४ ॥ जिनेन्द्र-वक्तृ-संजातां सुरासुरमुनीडिताम् । भारती नौमि दुर्जाड्य-नाशिनी विश्वदीपिक.म् ॥ ५ ॥ वंदे वृषभसेनादीन्गौतमान्तान्गणेशिन : । चतर्ज्ञान-धरान्सम्यक् पूर्वांग-रचनोद्यतान् ॥ ६॥ कुन्दकुन्दादिकाचार्यान्कवीन्द्रान्नौमि भक्तित: । प्रदीपायितमेतत्र यैर्मिथ्य त्मतमोवृत्त ॥ ७ ॥ तथा ललितकीाख्यमीडे भट्टारकं गुरुम् । क्रियते यत्प्रसादेन कृतिरेषा बुधोचिता ॥ ८ ॥
End.-धीरेणोक्तं पुरा चैतद्गीतमाद्यैस्ततोऽखिलं ।
श्रुतकेवलिभिम्तद्वत्तत : श्रीगुणभद्रकैः ॥ ९० ॥ संक्षेपेण च तद्वीक्ष्य प्रोक्तं तच्च मया पुन : । उक्तमेतच्चिरं नंद्यात्पठितं पाठितं बुधैः ॥ ९१ ॥ नाना-कथा-तत्त्व-रहस्य-पूर्ण पूजाव्रत-त्याग-तपोगुणाढ्यम् । स्वर्गापवर्गोरुनिदानभूतं पुराणमेतत्सुचिरं प्रजीयात् ॥ ९२ ॥ श्री मूल-संघेऽजनि कुंदकुन्द : सूरि महात्माखिल-तत्त्ववेदी । सीमंधर-स्वामि-पद-प्रवन्दी पञ्चायो जैन-मत-प्रदीप ः ॥ ९३ ॥ तदन्वयेऽभूद्यशःकीर्तिनामा भट्टारको भाषित-जैन-मार्ग: । तत्पदृवान्श्रीललितादिकार्ति भट्टारकोऽजायत सक्रियावान् ॥ ९४ ॥ जयति ललितकीर्ति आत-तत्त्वार्थ-सार्थी नय-विनय-विवेक-प्रोज्वला भव्य-बंधु : । जनपद-शत-मुख्ये मालवेलं यदाज्ञा समभवदिह जैन-द्योतिका दीपिकेव ॥ ९५ ॥