SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ( 733 ) विदधातु मम प्रज्ञां जैनशास्त्रावबोधिनीं। श्रीमज्जिन-मुखाम्भोजनिर्गता श्रुतदेवता ॥३॥ सिद्धान्तवारिधेश्चंद्र नेमिचंद्रं नमाम्यहं। यस्य प्रासादतो विश्वं हस्तस्थामलकोपमम् ॥ ४ ॥ विभाति विशदा कीर्ति यस्य त्रैलोक्यवर्तिनी । नमस्तस्मै मुनीन्द्राय श्रीमत्त्रैलोक्य-कीर्तये ॥ ५ ॥ आकारः सर्वविद्यानां धर्म-मार्ग-दिवाकरः । धर्माकर इतिख्यातः स मुनिः स्तूयते मया ॥ ६ ॥ वीर-दृष्टयादिसेनास्य मिथ्यात्वाधारि संहतो।। अतोऽसौ वीरसेनाख्यो जीयादागमपारगः ॥ ७ ॥ पुरवाटवंशभूषण-जोमनतनयस्य नेमिदेवस्य । अभ्यर्थनया रचितो ग्रंथोऽयं भव्यबोधाय ॥ ८ ॥ अथ पंच गुरून्नत्त्वा वक्ष्ये संस्कृतभाषया । त्रैलोक्यसारमालोक्य ग्रंथं त्रैलोक्यदीपकम् ॥ ९॥ अनंतदेशमाकाशमनंतं स्वप्रदेशकं तन्मध्येऽणुरिवायाति लोकोऽसंख्य प्रदेशकः ॥ १० ॥ End.-अस्त्यत्रवंशः पुरवाटसंज्ञः समस्तपृथ्वीपतिमाननीयः । त्यक्त्वा स्वकीयामपि राजलक्ष्मी देवा अपीच्छंति हि यत्र जन्म ॥ ६० ॥ तत्र प्रसिद्धोऽजनि कामदेवः पत्नी च तस्याजनि नाम देवी । पुत्रौ तयो जोमन-लक्ष्मणारव्यौ बभूवतू राघव लक्ष्मणाविव ॥ ६१ ॥ रत्नं रत्नखनेः शशी जलनिधेः आत्मोद्भवः श्रीपत स्तद्वज्जोमनतो वभूव तनुजः श्री नेमिदेवालयः । यो बाल्येऽपिमहानुभाव चरितः सज्जैन-मार्गेरतः शांतः श्री गुणभूषणक्रमनतः सम्यक्त्वचूडांकितः ॥ ६२ ॥ यस्त्यागेन जिगाय कर्णनृपतिं न्यायेन वाचस्पति नैर्मल्येन निशापतिं नगपतिं सत्स्थैर्यभावेन च । गांभीर्येण सरित्पतिं मललति (?) सद्धर्म-सद्भावनात् स श्रीमद् गुण-भूषणोन्नतिनतो नेमिश्चिरं नंदतु ॥ ६३ ॥
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy