________________
126
गणितसारसङ्ग्रहः.
कर्णो गणितेन समः समचतुरश्रस्य को भवेद्वाहुः । रज्जुर्द्विगुणोऽन्यस्य क्षेत्रस्य धनाच्च मे कथय ॥ ११४ ॥ आयतचतुरश्रस्य क्षेत्रस्य च रज्जुतुल्यमिह गणितम् । गणितं कर्णेन समं क्षेत्रस्यान्यस्य को बाहुः || १९९३ ॥ कस्यापि क्षेत्रस्य त्रिगुणो बाहुर्धनाच्च को बाहु: । कर्णश्वतुर्गुणोऽन्यः समचतुरश्रस्य गणितफलात् ॥ ११६ ॥ आयतचतुरश्रस्य श्रवणं द्विगुणं त्रिसङ्गुणो बाहुः । कोटिश्चतुर्गुणा तै रज्जुयुतैर्द्विगुणितं गणितम् ॥ ११७ ॥ आयतचतुरश्रस्य क्षेत्रस्य च रज्जुरत्र रूपसमः । कांटिः को बाहुर्वा शीघ्रं विगणय्य मे कथय ॥ ११८ ॥ कणों हिगुणो बाहुत्रिगुण. कोटिचतुर्गणा मिश्रः । रज्वा सह तत्क्षेत्रस्यावतचतुरश्रकस्य रूपसमः || १९९३ ॥ पुनरपि जन्वायतचतुरश्रक्षेत्रस्य बीज सङ्ख्यानयने करणसूत्रम् -- कोट्यून कर्णदलतत्कर्णान्तरमुभययोश्ध पदे । आयतचतुरश्रस्य क्षेत्रस्येयं क्रिया जन्ये ॥ १२० ॥ अत्रोद्देशकः ।
आयतचतुरश्रस्य च कोटिः पञ्चाशदधिकपव भुजा । साष्टाचत्वारिंशत्रिसप्ततिः श्रुतिरथात्र के बीजे ॥ १२१ ॥ इष्टकल्पितसङ्ख्याप्रमाणवत्कर्णसहितक्षेत्रानयनसूत्रम् - पद्यत्क्षेत्रं जातं बीजैस्संस्थाप्य तस्य कर्णेन । इष्टं कर्णं विभजेल्लाभगुणाः कोठिदोः कर्णाः ॥ १२२३ ॥ अत्रोद्देशकः ।
एकद्विकाहिक त्रिकचतुष्कसप्तैकसाष्टकानां च । गणक चतुर्णां शीघ्रं बीजैरुत्थाप्य कोठिभुजाः ॥ १२३ ॥