________________
क्षेत्रगणितव्यवहारः.
विषमत्रिभुजक्षेत्रस्य कल्पनाप्रकारस्य सूत्रम्-जन्यभुजार्थं छित्वा केनापिच्छेदलब्धजं चाभ्याम् । कोटियुतिर्भूः कर्णौ भुजौ भुजा लम्वका विषमे ॥ ११० ॥ अत्रोद्देशकः ।
हे द्वित्रिबीजकस्य क्षेत्रभूजार्थेन चान्यमुत्थाप्य । तस्माद्विषमत्रिभुजे भुजभूम्यवलम्बकं ब्रूहि ॥ १११ ॥
इति जन्यव्यवहारः समाप्तः ॥
पैशाचिक व्यवहारः.
इतः परं पैशाचिकव्यवहारमुदाहरिष्यामः ।
समचतुरश्रक्षेत्रे वा आयतचतुरश्रक्षेत्रे वा क्षेत्रफले रज्जुसङ्ख्या समे सति, क्षेत्रफले बाहुसङ्ख्या समे सति क्षेत्रफले कर्णसङ्खचया समे सति, क्षेत्रफले रज्ज्वर्धसङ्खचया समे सति, क्षेत्रफले वाहोस्तृतीयांशसङ्ख्या समे सति, क्षेत्रफले कर्णसङ्ख्यायाश्चतुर्थांशसङ्ख्या समे सति, द्विगुणित कर्णस्य त्रिगुणितवाहोश्च चतुर्गुणितकोटेश्व रज्जो संयोगसङ्ख्यां द्विगुणीकृत्य तद्द्द्दिगुणितसङ्ख्या क्षेत्रफले समाने सति, इत्येव - मादीना क्षेत्राणां कोटिभुजा कर्णक्षेत्रफलरज्जुषु इष्टराशिद्वयसाम्यस्य चेष्टराशिद्वयस्यान्यमिष्टगुणकारगुणित फलवत् क्षेत्रस्य भुजाकोटिसह ख्यानयनस्य सूत्रम् -
स्वगुणेष्टेन विभक्तास्वेष्टानां गणक गणितगुणितेन । गुणिता मुना भुजाः स्युः समचतुरश्रादिजन्यानाम् ॥। ११२३ ॥
अत्रोद्देशकः ।
125
रज्जुर्गणितेन समा समचतुरश्रस्य का तु मुजसङ्ख्या । अपरस्य बाहुसदृशं गणितं तस्यापि मे कथय ॥ ११३ ॥