________________
क्षेत्रगणितव्यवहारः.
आयतचतुरश्राणां क्षेत्राणां विषमबाहुकानां च । कर्णोऽत्र पञ्चषष्टिः क्षेत्राण्याचक्ष्व कानि स्युः ॥ १२४ ॥ इष्टजन्यायतचतुरश्रक्षेत्रस्य रज्जुसां च कर्णसङ्ख्यां च ज्ञात्वा तज्जम्यायतचतुरश्रक्षेत्रस्य भुजकोटिसङख्यानयनसूत्र
कर्णकृतौ द्विगुणायां रज्वर्धकृति विशोध्य तन्मूलम् । रज्वर्थे सङ्क्रमणीकृते भुजा कोटिरपि भवति ॥ १२१ ॥ अत्रोद्देशकः ।
परिधिः स चतुस्त्रिंशत् कर्णश्चात्र त्रयोदशो दृष्टः । जन्यक्षेत्रस्यास्य प्रगणय्याचक्ष्व कोटि भुजौ || १२६ ॥ क्षेत्रफलं कर्णसख्यां च ज्ञात्वा भुजकोटिसङख्यानयनसूत्रम्-कर्णकृतौ द्विगुणीकृतगणितं हीनाधिकं कृत्वा । मूलं कोटिभृजौ हि ज्येष्ठ इखेन मङ्क्रमणे ॥ १२७ ॥ अत्रोद्देशकः । आयतचतुरश्रस्य हि गणितं पष्टिस्त्रयोदशास्यापि ।
कर्णस्तु कोटिभुजयोः परिमाणं श्रोतुमिच्छामि ॥ १२८ ॥ क्षेत्रफलसख्यां रज्जुसख्यां च ज्ञात्वा आयतचतुरश्रस्य भुजकोटिसख्यानयनसूत्रम्-
रज्ज्वर्धवर्गराशेर्गणितं चनुराहतं विशोध्याय ।
मूलन हि रज्ज्वर्थे सङ्क्रमणे सति भुजाकोटी ।। १२९ ॥
अत्रोद्देशकः ।
सप्ततिशतं तु रज्जुः पश्वशतोत्तरसहस्त्र मिष्टधनम् । नन्यायतचतुरश्रे कोटिभुजौ में समाचक्ष्व ॥ १३० ॥
127