________________
द्रव्यसंग्रहवृत्तिः । गाथा-२८
३३ पेक्षया धर्माधौ च । जीवद्रव्य पुनरेकजीवापेक्षया लोकपूरणावस्थां विहायासवगतं, नानाजीवापेक्षया सर्वगतमेव भवति, पुद्गलद्रव्य पुनर्लोकरूपमहास्कन्धापेक्षया सर्वगतं, शेष पुद्गलापेक्षया सर्वगतं न भवति, कालद्रव्यं पुनरेककालाणुद्रव्यापेक्षया सर्वगतं न भवति, लोकप्रदेशप्रमाणनानाकालाणुविवक्षया लोके सर्वगतं भवति । "इदरंहि यपवेसे" यद्यपि सर्वद्रव्याणि व्यवहारेणैकक्षेत्रावगाहेनान्योन्यप्रवेशेन तिष्ठन्ति तथापि निश्चयनयेन चेतनादिस्वकीयस्वरूपं न त्यजन्तीति । अत्र षड द्रव्येषु मध्ये वीतरागचिदानन्दैकादिगुणस्वभाव शुभाशुभमभावचनकायव्यापार रहितं निजशुद्धात्मद्रव्यमेवोपादेयमिति भावार्थः ।। ___अत ऊर्द्ध वं पुनरपि षड्व्याणां मध्ये हेयोपादेयस्वरूपं विशेषेण विचारयति । तत्र शुद्धनिश्चयनयेन शक्तिरूपेण शुद्धबुद्धकस्वभावत्वात्सर्वे जीवा उपादेया भवन्ति । व्यक्तिरूपेण पुनः पञ्चपरमेष्ठिन एव । तत्राप्यर्हत्सिद्धद्वयमेव । तत्रापि निश्चयेन सिद्ध एव । परमनिश्चयेन तु भोगाकाङ्क्षादिरूपसमस्तविकल्पजालरहितपरमसमाधिकाले सिद्धसदृशः स्वशुद्धात्मैवोपादेय: शेषद्रव्याणि हेयानीति तात्पर्यम् । शुद्धबुद्धकस्वभाव इति कोऽर्थः ? मिथ्यात्वरागादिसमस्तविभावरहितत्वेन शुद्ध इत्युच्यते केवलज्ञानादानन्तगुणसहितत्वाद्धः । इति शुद्धबुद्धैकलक्षणं सर्वत्र ज्ञातव्यम् । इति षड्द्रव्यचूलिका समाप्ता । चूलिकाशब्दार्थः कथ्यते-चूलिका विशेषव्याख्यानम् , अथवा उक्तानुक्तव्याख्यानम् , उक्तानुक्तसंकीर्णव्याख्यानं चेति ॥ ____ अतः परं जीवपुगन्तपर्यावरूपाणामानवादिममपदार्थानामेकादशनायापर्यन्तं व्याख्यानं करोति । तत्रादौ "पासवबंधण” इत्याग्रधिकारसूत्रगाथैका, तदनन्तरमास्रवपदार्थव्याख्यानरूपेण "प्रासबदि जेण" इत्यादि गाथात्रयं, ततःपरं बन्धव्याख्यानकथनेन “वज्झदि कम्म” इति प्रभृतिगाथाद्वयं, ततोऽपि संवरकथनरूपेण "चेदणपरिणामो” इत्यादि सूत्रद्वय, ततश्च निर्जराप्रतिपादनरूपेण “जह कालेण तवेण य” इति प्रभृतिसूत्रमेकं, तदनन्तरं मोक्षस्वरूपकथनेन “सव्वस्स कम्मणो" इत्यादि सूत्रमेकं, ततश्च पुण्यपापद्वयकथनेन "सुहासुह" इत्यादि सूत्रमेकं चेत्येकादशगाथाभिः स्थलसप्तकसमुदायेन द्वितीयाधिकारे समुदायपातनिका ।
अत्राह शिष्यः यद्येकान्तेन जीवाजीवौ परिणामिनौ भवतस्तदा संयोग