________________
३४
द्रव्यसंग्रहवृत्तिः । गाथा - २८
पर्यायरूप एक एव पदार्थ:, यदि पुनरेकान्तेनापरिणामिनौ भवतस्तदा जीवा - जीवद्रव्यरूपौ द्वावेव पदार्थों, तत श्रास्रवादि सप्तपदार्थाः कथं घटत इति । तत्रोत्तरं ——— कथंचित्परिणामित्वाद् घटन्ते । कथंचित्परिणामित्वमिति कोऽर्थः ? यथा स्फटिकनविशेषो यद्यपि स्वभावेन निर्मलस्तथापि जपापुष्पाशुपाधिजनितंपर्यायान्तरपरिणति ं गृह्णाति । यद्यप्युपाधिं गृह्णाति तथापि निश्चयेन शुद्धस्वभावं न त्यजति तथा जीवोऽपि यद्यपि शुद्धद्रव्यार्थिकनयेन सहजशुद्धचिदानन्दैकस्वभावस्तथाप्यनादिकर्मबन्धपर्यायवशेन रागादिपरद्रव्योपाधिपर्यायं गृह्णाति । यद्यपि परपर्यायेण परिणमति तथापि निश्वयेन शुद्धस्वरूपं न त्यजति । पुनलोऽपि तथेति । परस्परसापेक्षत्वं कथंचित्परिणामित्वशब्दस्यार्थः । एवं कथंचित्परिणामित्वे सति जीवपुलसंयोगपरिणतिनिरृत्तत्वादान्यवादिपदार्था घटते । ते च जीवाजीपाम्यां सह नव भवन्ति तत एव नव पदार्थाः । पुण्यपापपदार्थद्वयस्याभेदनयेन कृत्वा 'पुण्यपापयोर्वन्धपदार्थस्य वा मध्ये अन्तर्भावविवचया सप्ततत्त्वानि भयन्ते । हे भगवन्, यद्यपि कथंचित्परिणामित्वबलेन भेदप्रधानपर्यायार्थिकनयेन नवपदार्थाः सप्ततत्त्वानि वा सिद्धानि तथापि तैः किं प्रयोजनम् । यथैवाभेदनयेन पुण्यपापपदार्थद्र्यस्यान्तर्भावा जातस्तथैव विशेषाभेदनयविवक्षायामास्रवादिपदार्थानामपि जीवाजीवद्वयमध्येऽन्तर्भावे कृते जीवाजीवौ द्वावेव पदार्थाविति । तत्र परिहारः – हेयोपादेवननपरिज्ञानप्रयोजनार्थमाश्रवादिपदार्थाः व्याख्येया भवन्ति । तदेव कथयति ——- उपादेयतत्त्वमक्षयानन्तसुखं, तस्य कारण मोक्षो, मोक्षस्य कारण' संवरनिर्जराद्वयं, तस्य कारणं विशुद्धज्ञानदर्शनस्वभावनिजात्मतत्त्वसम्यक् श्रद्धानज्ञानानुचरणलक्षणं निश्चयरत्नत्रयस्वरूपं, तत्साधकं व्यवहाररत्नत्रयरूपं चेति । इदानों हेयतत्त्वं कथ्यते — प्राकुलत्वोत्पादकं नारकादिदुःखं निश्चयेनेन्द्रियसुखं च यतत्त्वम् । तस्य कारणं संसारः, संसारकारणमात्रत्रबंधपदार्थद्वयं, तस्य कारणं पूर्वोक्तव्यवहारनिश्चयरत्नत्रयाद्विलक्षणं मिथ्यादर्शनज्ञानचारित्रत्रयमिति । एवं हेयोपादेयतत्त्वव्याख्याने कृते सति सप्ततत्त्वनवपदार्थाः स्वयमेव सिद्धाः ।
इदानीं कस्य पदार्थस्य कः कर्त्तेति कथ्यते - निजनिरञ्जन शुद्धात्मभावनात्पन्नपरमानन्दैकलक्षणसुखामृतरसास्वादपराङ्मुखो बहिरात्मा भण्यते । स