________________
३२
द्रव्यसंग्रहवृत्तिः । गाथा-२८ तानदर्शनम्यभावं शुद्धचैतन्यं प्राणशब्देनोच्यते तेन जीवतीति जीवः । व्यवहारनयेन पुनः कर्मोदयजनितद्रव्यभावरूपैश्चतुभि: प्राणैर्जीवति, जीविष्यति, जीवितपूर्वो वा जीवः । पुद्गलादिपञ्चद्रव्याणि पुनरजीवरूपाणि । "मुत्तं" शुद्धात्मनो विलक्षणस्पर्शरसगन्धवर्णवती मूर्तिरुच्यते, तत्सद्भावान्मूतः पुद्गलः । जीवद्रव्य पुनरनुपचरितासद्भूतव्यवहारेण मूर्तमपि शुद्धनिश्चयनयेनामूर्त्तम्, धर्माधर्माकाशकालाचाणि चामूर्त्तानि । “सपदेसं" लोकमात्रप्रमितासंख्येयप्रदेशलक्षणं जीवद्रव्यमादिं कृत्वा पञ्चद्रव्याणि पञ्चास्तिकायसंज्ञानि सप्रदेशानि । कालद्रव्यं पुनर्वहुप्रदेशत्वलनणकायत्वाभावादप्रदेशम् । “एय” द्रव्यार्थिकनयेन धर्माधर्माकाशद्रव्याण्येकानि भवन्ति । जीवपुद्गलकालद्रव्याणि पुनरनेकानि भवन्ति । “खेत्त' सर्वव्याणामवकाशदानमामर्थ्यान् क्षेत्रमाकाशमेकम् । शेषपञ्चद्रव्याण्यक्षेत्राणि । “किरियाय” क्षेत्रात्क्षेत्रान्तरगमनरूपा परिस्पन्दवती चलनवती क्रिया सा विद्यते ययोस्तो क्रियावन्तौ जीवपुद्गलौ । धर्माधर्माकाशकालद्रव्याणि पुनर्निष्क्रियाणि । “णिचं'' धर्माधर्माकाशकालद्रव्याणि यद्यप्यर्थपर्यायत्वेनानित्यानि, तथापि मुख्यवृत्त्या विभावव्यञ्जनपर्यायाभावान्नित्यानि, द्रव्यार्थिकनयेन च जीवपुद्गलद्रव्ये पुनर्यद्यपि द्रव्यार्थिकनयापेक्षया नित्ये तथाप्यगुरुलघुपरिणनिम्वरूपस्वभावपर्यायापेक्षया विभावव्यञ्जनप
यापेक्षया चानित्ये । “कारण' पुन्नधर्मावर्गाकाशकानवारि व्यवहारनयेन जीवस्य शरीरवाइ मनःप्राणापानादिगनिस्थित्यवगाव नाकार्याणि कुर्वन्तीति कारणानि भवन्ति । जीवद्रव्यं पुनर्यद्यपि गुरुशिष्यादिरूपेण परस्परोपग्रहं करोति तयापि पुद्गलादिपञ्चद्रव्याणां किमपि न करोतीत्यकारणम् । “कत्ता'' शुद्धपरिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन यद्यपि बन्धमोक्षद्रव्यभावरूपपुण्यपापघटपटादीनामकर्ता जीवनयावशुद्धनिश्रयेन शुभाशुभोपयोगाभ्यां परिणत: सन् पुण्यपापबन्धयोः कर्ता फलभोक्ता भवति । विशुद्धज्ञानदर्शनस्वभावनिजशुद्धात्मद्रव्यस्य सम्यकश्रद्धानज्ञानुष्ठानरूपेण शुद्धोपयोगेन तु परिणतः सन् मोक्षस्यापि कर्ता तत्फलभोक्ता चेति । शुभाशुभशुद्धपरिणामानां परिणमनमेव कर्तृत्वं सर्वत्र ज्ञातव्यमिति । पुद्गलादिपञ्चद्रव्याणां च स्वकीयस्वकीयपरिणामेन परिणमनमेव कर्तृत्वम् । वस्तुवृत्त्या पुनः पुण्यपापादिरूपेणाकर्तृत्वमेव । "सवंग" लोकालोकव्याप्त्यपेक्षया सर्वगतमाकाशं भण्यते । लोकव्याप्त्य