________________
द्रव्यसंग्रहवृत्तिः । गाथा-२७ । २८
३१ व्याख्या । "जावदियं आयासं अविभागी पुग्गलाणुवर्द्ध त खु पदेसं जाणे" यावत्प्रमाणमाकाशमविभागिपुरलपरमाणुना विष्टब्धं व्याप्त तदाकाशं खु स्फुटं प्रदेशं जानीहि हे शिष्य । कथंभूतं "सव्वाणुट्ठाणदाणरिहं" सर्वाणूनां सर्वपरमाणूनां सूक्ष्मस्कन्धानां च स्थानदानस्यावकाशदानस्याह योग्य समर्थमिति । यत एवेत्थंभूतावगाहनशक्तिरस्त्याकाशस्य तत एवासंख्यातप्रदेशेऽपि लोके अनन्तानन्तजीवास्तेभ्योऽप्यनन्तगुणपुद्गला अवकाशं लभन्ते । तथा चोक्तं जीवपुलविषयेऽवकाशदानसामर्थ्यम् "एगणिगोदशरीरे जीवादव्वप्पमाणदोदिट्ठा । सिद्धेहि अणंतगुणा सव्वेण वितीदकालेण ।। १ ।। उग्गाढगाढणिचिदो पुग्गलकाए हि सव्बदो लोगो । सुहुमे हि बादरे हि य [ताणतेहि विविहेहि ।।" अथ मत मूर्तपुद्गलानां भेदो भवतु नास्ति विरोधः । अमूर्ताखण्डस्याकाशद्रव्यस्य कथं विभागकल्पनेति । तन्ना रागाद्युपाधिरहितस्वसंवेदनप्रत्यन्नभावनोत्पन्नसुग्यामृतरसास्वादनुप्रम्य मुनियुगलस्यावस्थानक्षत्रमेकमनेकं वा । यद्येकं तर्हि द्वयोरेकत्वं प्राप्नोति न च तथा । भिन्न चेत्तदा निर्विभागद्रव्यस्यापि विभागकल्पनमायात घटाकाशपटाकाशमित्यादिवदिति ॥२७॥ एवं सूत्रपञ्चकेन पञ्चास्तिकायप्रतिपादकनामा तृतीयोऽन्तराधिकारः ।।
इति श्रीनेमिचन्द्रसैद्धान्तदेवविरचिते द्रव्यसंग्रहग्रन्थे नमस्कारादिसप्त__विंशतिगाथाभिरन्तराधिकारत्रयसमुदायन षड्द्रव्यपञ्चास्ति
_कायप्रतिपादकनामा प्रथमाधिकारः समाप्तः ॥ अतःपरं पूर्वोक्षद्रव्याणां चूलिकारूपेण विस्तरव्याख्यानं क्रियते । तद्यथापरिणामि-जीव-मुत्तं, सपदेसं एय-खेत्त-किरियाय । णिच्चं कारण-कत्ता, सव्वगदमिदरं हि यपवेसे ॥१॥ दुरिणय एयं एयं , पंच-त्तिय एय दुण्णि चउरो य । पंच य एयं एयं, एदेसं एय उत्तरं णेयं ॥२॥
व्याख्या । “परिणामि” इत्यादिव्याख्यानं क्रियते । परिणामपरिणामिनौ जीवपुद्गलौ स्वभावविभावपर्यायाभ्यां कृत्वा, शेषचत्वारि द्रव्याणि विभावव्यञ्जनपर्यायाभावान्मुख्यवृत्त्यापुनरपरिणामीनीति। "जीव” शुद्धनिश्चयनयेन विशुद्ध