________________
द्रव्यसंग्रहवृत्तिः । गाथा-२५ । २६ । २७ कालस्य किमायातम् । नैवं वक्तव्य-कर्मद्रव्ये गतिसहकारिकारणे विद्यमानेऽपि मत्स्यानां जलवन्मनुष्याणां शकटांगणादिवत्महकारिकारणानि बहून्यपि भवन्तीति । अथ मत कालद्रव्यं पुद्गलानां गतिसहकारिकारणं कुत्र भणितमास्ते । तदुच्यते । “पुग्गलकरणा जीवा खंधा खलु काल करणादु' इत्युक्त श्रीकुन्दकृन्दाचार्यदेवैः पञ्चास्तिकायप्राभृते । अस्यार्थः कथ्यते । धर्मद्रव्ये विद्यमानेऽपि जीवानां कर्मनोकर्मपुद्गला गतेः सहकारिकारणं भवन्ति, अणुस्कन्धभेदभिन्नपुद्गलानां तु कालद्रव्यमित्यर्थः ॥२५॥
अथैकप्रदेशस्यापि पुढलपरमागोम्पनारेण कायत्वमुपदिशति ।
व्याख्या--"एयपदेसो वि अणू णाणाखंधप्पदेसदो होदि बहुदेसो" एकप्रदेशोऽपि पुगनपरमाणुन:नाम्कन्धम्पबहुप्रदेशतः सकाशाद्वहुप्रदेशो भवति । "उवयारा" उपचाराद् व्यवहारनयात् “तेण य काो भणंति सव्वण्हु" तेन कारणेन कायमिति सर्वज्ञा भणन्तीति । तथाहि-यथायं परमात्मा शुद्धनिश्चयनयेन द्रव्यरूपेण शुद्धस्तथैकोऽप्यनादिकर्मबन्धवशास्निग्धरुक्षस्थानीयरागद्वेषाभ्यां परिणम्य नरनारकादिविभावपर्यायरूपेण व्यवहारेण बहुविधो भवति । तथा पुद्गलपरमाणुरपि स्वभावेनैकोऽपि शुद्धोऽपि रागद्वषस्थानीयबन्धयोग्यस्निग्धरूक्षगुणाभ्यां परिणम्य द्वनणुकादिम्कन्धरूपविभावपर्यायैर्वहुविधो बहुप्रदेशो भवति तेन कारणेन बहुप्रदेशलक्षणकायत्वकारणत्वादुपचारेण कायो भण्यते । अथ मत-यथा-पुगनपरमागोव्यरूपेणैकम्यापि द्वनणुकादिस्कन्धपर्यायरूपेण वहुप्रदेशरूपं कायत्वं जात तथा कालाणोरपि द्रव्येणैकस्यापि पर्यायेण कायत्वं भवतीति । तत्र परिहारः-स्निग्धरूक्षहेतुकस्य बन्धस्याभावान्न भवति । तदपि कस्मात् । स्निग्धरूक्षत्वं पुद्गलस्यैव धर्मो यतः कारणादिति । अणुत्वं पुद्गलसंज्ञा, कालस्याणुसंज्ञा कथमिति चेत् तत्रोत्तरम्-अणुशब्देन व्यवहारेण पुद्गला उच्यन्ते निश्चयेन तु वर्णादिगुणानां पूरणगलनयोगात्पुद्गला इति वस्तुवृत्या पुनरणुशब्दः सूक्ष्मवाचकः । तद्यथा परमेण प्रकणाणुः अणुकोऽर्थः सूक्ष्म इति व्युत्पत्त्या परमाणुः स च सूक्ष्मवाचकोऽणुशब्दो निर्विभागपुद्गलविवक्षायां पुन्लाणुवदिति । अविभागिकालद्रव्यविवक्षायां तु कालाणु कथयतीत्यर्थः ॥२६॥
अथ प्रदेशलक्षणमुपलक्षयति ।