________________
द्रव्यसंग्रहवृत्तिः । गाथा-२४।२५ कारणसमयसारस्य व्ययस्तदुभयाधारभूतपरमात्मद्रव्यत्वेन ध्रौव्यमित्युक्तलक्षणेगुणपर्यायैरुत्पादव्ययध्रौव्यैश्च सह मुक्तावस्थायां संज्ञालक्षणप्रयोजनादिभेदेऽपि सत्तारूपेण प्रदेशरूपेण च भेदो नास्ति । कस्मादिति चेत्-मुक्तात्मसत्तायां गुणपर्यायाणामुत्पादव्ययध्रौव्याणां चास्तित्वं सिद्धपति, गुणपर्यायात्पादव्ययध्रौव्यसत्तायाश्च मुक्तात्मास्तित्वं सिद्धप्रतीति परस्परसाधितसिद्धत्वादिति । कायत्वं कथ्यते-बहुप्रदेशप्रचयं दृष्ट्वा यथा शरीरं काया भण्यते तथानन्तज्ञानादिगुणाधारभूतानां लोकाकाशप्रमितासंख्येयशुद्धप्रदेशानां प्रचय समूह संघातं मेलापकं दृष्ट्वा मुक्तात्मनि कायत्वं भण्यते । यथा शुद्धगुणपर्यायोत्पादव्ययध्रौव्यैः सह मुक्तात्मनः सत्तारूपेण निश्चयेनाभेदो दर्शितस्तथा यथासंभवं संसारिजीवेषु पुद्गलधर्माधर्माकाशकालेषु च द्रष्टव्यः । कालद्रव्यं विहाय कायत्वं चेति सूत्रार्थः ॥२४॥ __ अथ कायत्वव्याख्याने पूर्व यत्प्रदेशास्तित्वं सूचित तस्य विशेषव्याख्यानं करोतीत्येका पातनिका, द्वितीया तु कस्य द्रव्यस्य कियन्तः प्रदेशा भवन्तीति प्रतिपादयति ।
व्याख्या । "होति असंखा जीवे धम्माधम्मे" भवन्ति लोकाकाशप्रमितासंख्येयप्रदेशाः प्रदीपवदुपसंहारविस्तारयुक्तेऽप्येकजीवे, नित्य स्वभावविस्तीर्णयोर्धर्माधर्मयोरपि । “अणंत प्रायासे” अनन्तप्रदेशा आकाशे भवन्ति । "मुत्ते तिविह पदेसा" मूर्ते पुद्गलद्रव्ये संख्यातासंख्यातानन्ताणूनां पिण्डाः स्कन्धास्त एव त्रिविधाः प्रदेशा भण्यन्ते न च क्षेत्रप्रदेशाः । कस्मात् पुद्गलस्यानन्तप्रदेशक्षत्रेवस्थानाभावादिति । “कालस्सेगा" कालाणुद्रव्यस्यैक एव प्रदेशः । “ण तेण सो काओ" तेन कारणेन स कायो न भवति । कालस्यैकप्रदेशत्वविषये युक्तिं प्रदर्शयति । तद्यथा-किञ्चिदूनचरमशरीरप्रमाणस्य सिद्धत्वपर्यायस्योपादानकारणभूतं शुद्धात्मद्रव्य तत्पर्यायप्रमाणमेव । यथा वा मनुष्यदेवादिपर्यायोपादानकारणभूत संसारिजीवद्रव्यं तत्पर्यायप्रमाणमेव, तथा कालद्रव्यमपि समयरूपस्य कालपर्यायस्य विभागेनोपादानकारणभूतमविभाग्येकप्रदेश एव भवति । अथवा मन्दगत्या गच्छतः पुद्गलपरमाणोरेकाकाशप्रदेशपर्यन्तमेव कालद्रव्य गतेः सहकारिकारणं भवति ततो ज्ञायते तदप्येकप्रदेशमेव । क श्चिदाह-पुद्गलपरमाणोर्गतिसहकारिकारणं धर्मद्रव्य तिष्ठति,