________________
२८
द्रव्यसंग्रहवृत्तिः । गाथा-२२ । २३ जीवः परकीयविषयानुभवं दृष्टं श्रुतं च मनसि स्मृत्वा यद्विषयाभिन्लापं करोति तदपध्यानं भण्यते तत्प्रभृतिसमस्तविकल्पजालरहितं स्वसंवित्तिसमुत्पन्नसहजानन्दैकलक्षणसुखरसास्वादसहितं यत्तद्वीतरागचारित्रं भवति । यत्पुनस्तदविनाभूतं तन्निश्चयसम्यक्त्वं चेति भण्यते । तदेव कालत्रयेऽपि मुक्तिकारणम् । कालस्तु तदभावे सहकारिकारणमपि न भवति सत: स हेय इति । तथाचोक्तं "किं पल्लविएण बहुणा जे सिद्धा णरवरा गए काले । सिद्धिहंहि जेवि भविया तं जाणह सम्ममाहप्पं" इदमत्र तात्पर्य-कालद्रव्यमन्यद्वा परमागमाविरोधेन विचारणीयं परं किन्तु वीतरागसर्वज्ञवचनं प्रमाणमिति मनसि निश्चित्य विवादो न कर्त्तव्यः । कस्मादिति चेत्-विवादे रागद्वषो भवतस्ततश्च संसारवृद्धिरिति ॥ २२॥ __ अतःपरं सूत्रपञ्चकपर्यन्त पञ्चास्तिकायव्याख्यानं करोति । तत्रादौ गाथापूर्वार्द्धन षड्द्रव्यव्याख्यानोपसंहार उत्तरार्धेन तु पञ्चास्तिकायव्याख्यानप्रारम्भः कथ्यते । ___ व्याख्या । “एवं छब्भेयमिदं जीवाजीवप्पभेददो दब्वं उत्तं' एवं पूर्वोक्तप्रकारेण षड्भेदमिदं जीवाजीवप्रभेदतः साकाशाद् द्रव्यमुक्तं कथितं प्रतिपादितम् । “कालविजुत्तं णायव्वा पंच अस्थिकाया दु" तदेव षड्विधं द्रव्य कालेन वियुक्तं रहितं ज्ञातव्याः पञ्चास्तिकायास्तु पुनरिति ॥ २३ ॥
पञ्चेति संख्या ज्ञाता तावदिदानीमस्तित्वं कायत्वं च निरूपयति ।
व्याख्या । “संति जदो तेणेदे अत्थीति भणंति जिणवरा" सन्ति विद्यन्ते यत एते जीवाद्याकाशपर्यन्ताः पञ्च तेन कारणेनैतेऽस्तीति भणन्ति जिणवराः सर्वज्ञाः । “जम्हा काया इव बहुदेसा तम्हा काया य' यस्मात्काया इव बहुप्रदेशास्तस्मात्कारणात्कायाश्च भणंति जिनवराः । “अत्थिकाया य" एवं न केवलं पूर्वोक्तप्रकारेणास्तित्वेन युक्ता अस्तिसंज्ञास्तथैव कायत्वेन युक्ताः कायसंज्ञा भवन्ति किन्नुभयमेलापकेनास्तिकायसंज्ञाश्च भवन्ति । इदानीं संज्ञालन्नणप्रयोजनादिभेदेऽवस्नित्वेन सहाभेदं दर्शयति । तथाहि शुद्धजीवास्तिकाये सिद्धत्वलक्षणः शुद्धद्रव्यव्यञ्जनपर्यायः, केवलज्ञानादयो विशेषगुणा: अस्तित्ववस्तुत्वागुरुलघुत्वादयः सामान्यगुणाश्च । तथैवाव्याबाधानन्तसुखाद्यनन्तगुणव्यक्तिरूपस्य कार्यसमयसारस्योत्पादो रागादिविभावरहितपरमस्वास्थ्यरूपस्य