________________
द्रव्यसंग्रहवृत्तिः । गाथा-१३ अनुष्यदेवगतिभेदेन चतुर्विधा गतिमार्गणा भबति । १ । अतीन्द्रियशुद्धात्मतत्त्वप्रतिपक्षभूता ह्यकद्वित्रिचतुःपञ्चेन्द्रियभेदेन पञ्चप्रकारेन्द्रियमार्गणा । २ । अशरीरात्मतत्त्वविसदृशी पृथिव्यप्तेजोवायुवनस्पतित्रसकायभेदेन षड्भेदा कायमार्गणा । ३ । निर्व्यापारशुद्धात्मपदार्थविलक्षणमनोवचनकाययोगभेदेन त्रिधा योगमार्गणा, अथवा विस्तरेण सत्यासत्योभयानुभयभेदेन चतुर्विधो मनोयोगो वचनयोगश्च,औदारिकौदारिकमिश्रवैक्रियिकवैक्रियिकमिश्राहारकाहारकमिश्रकामणकायभेदेन सप्रविधो काययोगश्चेति समुदायेन पञ्चदशविधा वा योगमार्गणा । ४। वेदोदयोद्भवरागादिदोषरहितपरमात्मद्रव्याद्भिन्ना स्त्रीपुनपुंसकभेदेन त्रिधा वेदमार्गणा ।५ । निष्कपाचशद्धात्मस्वभावप्रतिकृलकोधनोभमायामानभेदेन चतुर्विधा कपायमार्गणा, विस्तरेण कषायनोकषायभेदेन पञ्चविंशतिविधा वा ।६। मत्यादिसंज्ञापञ्चकं कुमत्याद्यज्ञानत्रयं चेत्यष्टविधा ज्ञानमार्गणा । ७ । सामाचिकच्छेदोपस्थापनपरिहारविशुद्धिमूक्ष्मसांपराययथाख्यातभेदेन चारित्रं पञ्चविधम् , संयमासंयमस्तथैवासंयमश्चेति प्रतिपनद्येन सह सप्तप्रकारा संयममार्गणा ।८। चक्षुरचक्षुरवधिकेवलदर्शनभेदेन चतुर्विधा दर्शनमार्गणा । ६ । कषायोदयरञ्जितयोगप्रवृत्तिविसदृशपरमात्मद्रव्यप्रतिपन्थिनी कृष्णनीलकापोततेजः-पद्मशुक्लभेदेन षड्विधा लेश्यामार्गणा । १० । भव्याभव्यभेदेन द्विविधा भव्यमार्गणा । ११ । अत्राह शिष्यः । पारिगामिकपरमभावमपशुद्धनिश्चयेन गुणस्थानमार्गणास्थानरहिता जीवा इत्युक्तं पूर्वम् , इदानों पुनभव्याभव्यरूपेण मार्गणामध्येऽपि पारिणामिकभावो भणित इति पूर्वापरविरोधः । अत्र-परिहारमाह-पूर्व शुद्धपारिणामिकभावापेक्षया गुणस्थानमार्गणानिषेधः कृतः, इदानीं पुनर्भव्याभव्यत्वद्यमशुद्धपारिणामिकभावरूपं मार्गणामध्ये पि घटते । ननु-शुद्धाशुद्धभेदेन पारिणामिकभावो द्विविधा नास्ति किन्तु शुद्ध एव । नैव-यद्यपि सामान्यरूपेणोत्सर्गव्याख्यानेन शुद्धपारिणामिकभावः कथ्यते तथाप्यपवादव्याख्यानेनाशुद्धपारिणामिकभावोऽप्यस्ति । तथाहि-"जीवभव्याभव्यत्वानि च” इति तत्त्वार्थसूत्रे त्रिधा पारिणामिकभावो भणितः, तत्र-शुद्धचैतन्यरूपं जीवत्वमविनश्वरत्वेन शुद्धद्रव्याश्रितत्वाच्छुद्धद्रव्यार्थिकसंज्ञः शुद्धपारिणामिकभावो भण्यते, यत्पुनः कर्मजनितदशप्राणरूपं जीवत्वं, भव्यत्वम् , अभव्यत्वं चेति त्रयं, तद्विनश्वरत्वेन पर्यायाश्रितत्वात्प