________________
द्रव्यसंग्रहवृत्तिः । गाथा-१३।१४ यार्थिकसंज्ञस्त्वशुद्धपारिणामिकभाव उच्यते । अशुद्धत्वं कथमिति चेत्—यद्यप्येतदशुद्धपारिणामिकत्रयं व्यवहारेण संसारिजीवेऽस्ति तथापि "सव्वे सुद्धा हु सुद्धण्या” इति वचनाच्छुद्धनिश्चयेन नास्ति त्रयं, मुक्तजीवे पुनः सर्वथैव नास्ति, इति हेतोरशुद्धत्वं भण्यते । तत्र शुद्धाशुद्धपारिणामिकमध्ये शुद्धपारिणामिकभावो ध्यानकाले ध्येयरूपो भवति ध्यानरूपो न भवति, कस्मात् ? ध्यानपर्यायस्य विनश्वरत्वात्, शुद्धपारिणामिकस्तु द्रव्यरूपत्वादविनश्वरः, इति भावार्थः । औपशमिकनायोपशनिकनाचिकलन्चक्त्वभेदेन त्रिधा सम्यक्त्वमार्गणा मिथ्यादृष्टिसासादनमिश्रसंज्ञविपक्षत्रयभेदेन सह षड्विधा ज्ञातव्या । १२ । संज्ञित्वासंज्ञित्वविसशपरमात्मस्वरूपाद्भिन्ना संझ्यसंज्ञिभेदेन द्विधा संज्ञिमार्गणा । १३ । आहारकानाहारकजीवभेदेनाहारकमार्गणापि द्विधा । १४ । इति चतुर्दशमार्गणास्वरूपं ज्ञातव्यम् । एवं “पुढविजलतेउ वाऊ” इत्यादिगाथाद्वयेन, तृतीयगाथापादत्रयेण च "गुणजीवापजत्ती पाणासण्णायमग्गणा उया। उवओगो विय कमसो वीस तु परूवणा भणिया ।" इति गाथाप्रभृतिकथितस्वरूपं धवलजयधवलमहाधवलप्रवन्धाभिधानसिद्धान्तत्रयवीजपदं सूचितम् । “सव्वे सुद्धा हु सुद्धणया" । इति शुद्धात्मतत्त्वप्रकाशकं तृतीयगाथाचतुर्थपादेन पञ्चास्तिकायप्रवचनसारसमयसाराभिधानप्राभृतत्रयस्यापि बीजपदं सूचितमिति । अत्र गुणस्थानमार्गणादिमध्ये केवलज्ञानदर्शनद्यं क्षाचिकसम्यक्त्वमनाहारकशुद्धात्मस्वरूपं च साक्षादुपादेयं, यत्पुनश्च शुद्धात्मसम्यश्रद्धानज्ञानानुचरणलक्षणं कारणसमयसारस्वरूपं तत्तस्यैवोपादेयभूतस्य विवक्षितैकदेशशुद्धनयेन साधकत्वात्पारम्पर्येणोपादेयं, शेषं तु हेयमिति । यच्चाध्यात्मग्रन्थस्य बीजपदभूतं शुद्धात्मस्वरूपमुक्तं तत्पुनरुपादेयमेव । अनेन प्रकारेण जीवाधिकारमध्ये शुद्धाशुद्धजीवकथनमुख्यत्वेन सप्तमस्थले गाथात्रयं गतम् ॥ १३॥
अथेदानी गाथापूर्वार्द्धन सिद्धस्वरूपमुत्तरार्द्धन पुनरूर्ध्वगतिस्वभावं च कथयति ।
व्याख्या । सिद्धाः सिद्धाभवन्तीति क्रियाध्याहारः। किंविशिष्टाः "णिकम्मा अट्ठगुणा किचूणा चरमदेहदो' निष्कर्माणोऽष्टगुणाः किञ्चिदूनाश्चरमदेहतः सकाशादिति सूत्रपूर्वार्द्धन सिद्धस्वरूपमुक्तम् । ऊर्ध्वगमनं कथ्यते "लोयग्गठिदा णिचा उप्पादवयेह संजुत्ता" ते च सिद्धा लोकाग्रस्थिता नित्या उत्पादव्य