________________
द्रव्यसंग्रहवृत्तिः । गाथा-१३ मात्मतत्त्वैकाग्रध्यानपरिणामेन कृत्वा येषां जीवानामकसमय ये परस्पर पृथक्वन्तु नायान्ति ते वर्णसंस्थानादिभेदेऽप्यनिवृत्तिकरणापशमिकक्षपकसंज्ञा द्वितीयकपाया।कविंशतिभेदभिन्नचारित्रमोहप्रकृतीनामुपशमक्षपणसमर्था नवमगुणस्थानवर्त्तिनो भवन्ति । ६ । सूक्ष्मपरमात्मतत्त्वभावनाबलेन सूक्ष्मक्लिष्टगतलोभकषायस्योपशमकाः क्षपकाश्च दशमगुणस्थानवर्त्तिनो भवन्ति । १० । परमोपशममूर्तिनिजात्मस्वभावसंवित्तिबलेन सकलोपशान्तमोहा एकादशगुणस्थानवर्तिनो भवन्ति । ११ । उपशमश्रेणिविलक्षणेन क्षपकश्रेणिमार्गेण निष्कषायशुद्धात्मभावनाबलेन क्षीणकषाया द्वादशगुणस्थानवर्त्तिनो भवन्ति ।१२। मोहक्षपणानन्तरमन्तमुहूर्त्तकालं स्वशुद्धात्मसंवित्तिलक्षणैकत्ववितर्कविचारद्वितीयशुक्लध्याने स्थित्वा तदन्त्यसमये ज्ञानावरणदर्शनावरणान्तरायत्रयं युगपदेकसमयेन निमूल्य मेघपञ्जरविनिर्गतदिनकर इव सकलविमलकेवलज्ञानकिरणैर्लोकालोकप्रकाशकास्त्रयोदशगुणस्थानवर्त्तिनो जिनभास्करा भवन्ति । १३ । मनोवचनकायवर्गगगालम्बनकर्मादाननिमित्तात्मप्रदेशपरिस्पन्दलक्षणयोगरहिताश्चतुर्दशगुणस्थानव - तिनोऽयोगिजिना भवन्ति । १४ । ततश्च निश्चयरत्नत्रयात्मककारणभूतसमयसारसंज्ञेन परमयथाख्यातचारित्रेण चतुर्दशगुणस्थानातीता: ज्ञानावरणाद्यष्टकर्मरहिताः सम्यक्त्वाद्यष्टगुणान्तभूतनिर्नामगोत्राद्यनन्तगुणाः सिद्धा भवन्ति । अत्राह शिष्य:-कंवलज्ञानोत्पत्तौ मोक्षकारणभूतरत्नत्रयपरिपूर्णतायां सत्यां तस्मिन्नेव क्षणे मोक्षण भाव्यं सयोग्य-योगिजिनगुणस्थानद्वये कालो नास्तीति । परिहारमाह-यथाख्यातचारित्रं जातं परं किन्तु परमयथाख्यातं नास्ति । अत्र दृष्टान्तः । यथा चौरव्यापाराभावेऽपि पुरुषस्य चौरसंसर्गो दोषं जनयति तथा चारित्रविनाशकचारित्रमोहोदयाभावेऽपि सयोगिकेवलिनां निष्क्रियशुद्धात्माचरणविलक्षणो योगत्रयव्यापारश्चारित्रमलं जनयति, योगत्रयगते पुनरयोगिजिने चरमसमयं विहाय शेषाघातिकर्मतीव्रोदयश्चारित्रमलं जनयति, चरमसमये तु मन्दोदये सति चारित्रमलाभावान्मोक्षं गच्छति । इतिचतुर्दशगुणस्थानव्याख्यानं गतम् ।
इदानीं मार्गणाः कथ्यन्ते। “गइ इंदियं च काये जोए वेए कसाय णाणे य । संयम दंसण लेस्सा भविश्रा सम्मत्तसण्णि आहारे।" इति गाथाकथितक्रमेण गत्यादिचतुर्दशमार्गणा ज्ञातव्याः। तद्यथा-स्वात्मोपलब्धिसिद्धिविलक्षणा नारकतिर्य