________________
Vada ] Gañadharavada
: 529 :. • Trans.-469-470 You do not properly understand the (real) meaning of those sentences of Vedas. It is this. Hear please. Like 'a-dhana,' the word a-sarira is meant to denote the negation of an existent object. By ( means of ) negation due to — na', ( its ) existence would be found in another of the same type. In understanding the word 'a-śarira', it is better, therefore, to accept ( the existence of ) jiva and not ( its non-existence like ) kharabriga. ( 2017-2018 )
___टीका-आयुष्मन् ! प्रभास ! न केवलं युक्तिम् , वेदपदानाममीषामर्थ च त्वं सुष्टु न जानासि, ततस्तं शृणु " न ह वै०" इत्यादि पूर्वार्धं सुगमत्वादत्र गाथाद्वये न व्याख्यातम् , तदपि सुखप्रतिपत्त्यर्थं व्याख्यायते-'न' इति निपातो निषेधार्थः । 'ह' 'वै' इत्येतदपि निपातद्वयं हिशब्दार्थत्वाद् यस्मादर्थे । सह शरीरेण वर्तत इति सशरीरो जीवस्तस्य सशरीरस्येत्यत्रैवकारो द्रष्टव्यः । ततश्चायमर्थः-यस्मात् सशरीरस्य जीवस्य प्रिया-ऽप्रिययोः सुखदुःखयोरपहतिर्विघातोऽन्तरं नास्ति, न त्वशरीरस्य; तस्मादशरीरं शरीर. रहितं मुक्त्यवस्थायां वसन्तं लोकान्तस्थितं जीवं प्रिया-ऽप्रिये सुख-दुःखे न स्पृशतः । इदमुक्तं भवति-यावदयं जीवः सशरीरः, तावत् सुखेन दुःखेन वाऽन्यतरेण कदाचिदपि न मुच्यते; अशरीरस्त्वसौ क्षीणवेदनीयत्वात् सुखदुःखाभ्यां कदाचिदपि न स्पृश्यत इति । एवंभूते चास्य वाक्यस्याथै सति योऽयमशरीरव्यपदेशः, असौ सत एव विद्यमानस्यैव जीवस्य मुक्त्यवस्थायां विधीयते, न तु सर्वथा नष्टस्य । कुतः ? इत्याह-निषेधात् । इह यो यस्य निषेधः स तस्य सत एव विधीयते, न त्वसतः, यथाऽधन इति, अत्र सत एव देवदत्तस्य धननिषेधो विधीयते, न त्वसतः खरविषाणस्य ।
आह-न विद्यते शरीरं यस्येत्येवं निषेधादन्यपदार्थे जीव एव कथं प्रतीयते ? इत्याह-" ननिसेहओ य इत्यादि " व्याख्यातो विशेषप्रतिपत्तेः पर्युदासवृत्तिना नत्रा निषेधो ननिषेधस्तस्माद् ननिषेधात् कारणात् सशरीरादन्यस्मिंस्तद्विध एव शरीरसदृशे कस्मिंश्चिदन्यपदार्थे संप्रत्ययो विज्ञेयः, यथा " न ब्राह्मणोऽबाह्मणः" इत्युक्ते बाह्मणसदृशः क्षत्रियादिरेव गम्यते, न