________________
:514.
Jinabhadra Gani's
(The eleventh
Yata eva pratyakşam Saumya ! sukham năsti duḥkhamevedami Tatpratīkāravibhaktam tataḥ puņyaphalamiti duhkhamiti 1145711] ____Trans.-457 That which is directly perceived as happiness is riot happiness, O Saumya ! but it is only misery. It has been distinguished (from duhkha ) only as its resistance. The fruition of virtuous deeds is, therefore, ( nothing but ) duhkha. (2005)
टीका-सौम्य ! प्रभास ! यत एव दुःखेऽनुभूयमाने कस्याप्यविपर्यस्तमतेः सुखं प्रत्यक्षं नास्ति, सुखानुभवः स्वसंविदितो न विद्यते, अत एवास्माभिरुच्यते-" दुक्खमेवेदं " इति, यत् किमप्यत्र संसारचक्रे सक्चन्दना-ऽङ्गनासंभोगादिसमुत्थमपि विद्यते तत् सर्व दुःखमेवेत्यर्थः, केवलं तस्याङ्गनासंभोगादिविषयौत्सुक्यजनितारति रूपस्य दुःखस्य प्रतीकारोऽङ्गनासंभोगादिकस्तत्प्रतीकारस्तेन तत्प्रतीकारेण दुःखमपि सद् विभक्तं मूढै देन व्यवस्थापितम्-तत्प्रतीकाररूपं कामिनीसंभोगादिकं पामाकण्डूयनादिवत् सुखमध्यवसितम्, शूलारोपण-शूल-शिरोबाधादिव्याधि-बन्ध-वधादिजनितं तु दुःखमिति। रमणीसंभोग-चक्रवर्तिपदलाभादिसुखं स्वसंविदितं "दुःखम्" इति वदतां प्रत्यक्षविरोध इति चेत् । तदयुक्तम् , मोहमूढप्रत्यक्षत्वात् तस्य, तल्लाभौत्सुक्यजनितारतिरूपदुःखप्रतीकाररूपत्वाद् दुःखेऽपि तत्र सुखाध्यवसायः, पामाकण्डूयना-ऽपथ्याहारपरिभोगादिवत् ; तथा चोक्तम्
नमः प्रेत इवाविष्ट क्वणन्तीमुपगृह्य ताम् ।
गाढायासितसर्वाङ्गः स सुखी रमते किल ॥ १ ॥ औत्सुक्यमात्रमवसादयति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव । नातिश्रमापगमनाय यथा श्रमाय राज्यं स्वहस्तगतदण्डमिवातपत्रम् ॥ २ ॥ भुक्ताः श्रियः सकलकामदुधास्ततः किं संप्रीणिताः प्रणयिनः स्वधनैःस्ततः किम ? दत्तं पदं शिरसि विद्विषतां ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥३॥ इत्थं न किञ्चिदपि साधन-साध्यजातं स्वप्नेन्द्रजालसदृशं परमार्थशून्यम् । अत्यन्तनिर्वृतिकरं यदपेतबाधं तद् ब्रह्म वाञ्छत जनाः! यदि चेतनास्ति ॥४॥