SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ •: 10:. .. Jinabhadra Gami's . . [ The first ___ "एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । · भद्र ! वृकपदं पश्य यद् वदन्ति बहुश्रुताः ॥ १॥" इत्यादि । भट्टोऽप्याह-" विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न च प्रेत्यसञ्ज्ञाऽस्ति ।" सुगतस्त्वाह-" न रूपं भिक्षवः ! पुद्गलः" इत्यादि । आत्माऽस्तित्ववचनान्यप्यागमेषु श्रूयन्ते तथा च वेदः-" न हि वै सशरीरस्य प्रिया-ऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रिया प्रिये न स्पृशतः" इति; तथा, “ अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादि। ___ कापिलागमे तु प्रतिपाद्यते--" अस्ति पुरुषोऽकर्ता निर्गुणो भोक्ता चिद्रूपः" इत्यादि। तस्मादागमानां परस्परविरुद्धवाद् नागमप्रमाणादप्यात्मसत्त्वसिद्धिः। इदं च वैशेषिकमतेन प्रत्यक्षा-ऽनुमाना-ऽऽगमलक्षणं प्रमाणत्रयमुपन्यस्तम् । एतच स्वयं द्रष्टव्यम्-उपमाप्रमाणगम्योऽपि जीवो न भवति । तत्र हि “यथा गौस्तथा गवयः। इत्यादावेव सादृश्यमसनिकृष्टेऽर्थे बुद्धिमुत्पादयति । न चेहान्यः कश्चित् त्रिभुवनेऽप्यात्मसदृशः पदार्थोऽस्ति, यद्दर्शनादात्मानमवगच्छामः । काला-ऽऽकाश-दिगादयो जीवतुल्या विद्यन्त इति चेत् । न, तेषामपि विवादास्पदीभूतत्वेन तदंहिबद्धत्वात् । अर्थापत्तिसाध्योऽपि जीवो न भवति । न हि दृष्टः श्रुतो वा कोऽप्यर्थ आत्मनमन्तरेण नोपपद्यते, यदलात् तं साधयामः। तसात् सर्वप्रमाणविषयातीतो जीव इति तव बुद्धिः, भावोपलम्भकप्रमाणपञ्चकविषयातीतत्वात् प्रतिषेधसाधकाऽभावाख्यषष्ठप्रमाणविषय एव जीव इत्यर्थः । इति पूर्वपक्षः॥ ५ (१५५३ )॥ D. C.—The fact that the āgamas of the various expounders of religion, are opposed to one another, justifies one to doubt the existence of the soul, rather than to admit it. For instance, some of the agamas propound the non-existence of the soul. To cite an example, the Nastikas---the atheists-hedonists say :
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy