________________
*: 474 :
Jinabhadra Gani's [The tenth ण्डाकारः, शक्तिश्च या काचिदात्मीया, एतदुभयलक्षणो यः पर्यायस्तस्य यो विलयो विनाशस्तत्समकालमेवासावुत्पद्यते मृत्पिण्डः । केन ? इत्याहपृथुबुध्नोदरादिको यः कुम्भाकारः, तच्छक्तिश्च या जलाहरणादिविषया, एतदुभयलक्षणो यः पर्यायस्तेनोत्पद्यते । रूप-रस-गन्ध-स्पर्शरूपतया मृद्रव्यरूपतया चासौ मृत्पिण्डो न जायते, नापि व्येति विनश्यति । ततस्तद्रूपतया नित्योऽयमुच्यते, तेन रूपेण तस्य सदैवावस्थितत्वात् । तदेवं मृत्पिण्डो निजाकारस्वशक्तिरूपतया विनश्यति, घटाकार-तच्छक्तिरूपतयोत्पद्यते, रूपादिभावेन मृदद्रव्यरूपतया चावतिष्ठत, इत्युत्पाद-व्यय-ध्रौव्यस्वभावोऽयमुच्यते । एवं घटोऽपि पूर्वपर्यायेण विनश्यति, घटाकारतया तत्पद्यते, रूपादित्वेन मृद्र्व्यतया चावतिष्ठत इत्यसावप्युत्पाद-व्यय-ध्रौव्यस्वभावमेवाभिमतं तीर्थकृताम् । ततश्च यथोत्पत्तिमत्त्वाद् विनाशित्वं घटे सिध्यति तथाऽविनाशित्वमपि । तथा च सति साध्यधर्मिणि चैतन्येऽपि तत्सिद्धिरिति । तदेवं चैतन्यादव्यतिरिक्तोऽपि जीवः कथञ्चिद् नित्य एव ॥ ४१६-४१७ ॥ (१९६४-१९६५)
D. C.-Properties like the shape and capacity of the lump of earth, vanish and at the same time, ghata-having its peculiar shape and its capacity of holding water-is produced. The lump of earth is neither produced nor destroyed in the form of rūpa-rasa-gandha-spars'a or dravya. It continues to exist perpetually in these forms. Thus, the lump of earth vanishes in the form of the shape and capacity of ghata, and exists for ever in the form of rūpa, rasa, gandha, spars'a and dravya. Similarly, ghata also vanishes in the form of its former paryāyas, and comes into existence with new paryāyas of ghatākāra, and lasts for ever in the form of paryāyas of rūpa etc. as well as dravya Consequently, it has also the svabhāva of utpatti, vyaya and dhrauvya. Such is not the case with ghata only, but it is the nature of each and every object of the Universe. So, like destructibility, in-destructibility of ghata is also due to the hetus like utpattimattva etc. Consequently, in case of cartanya and ātmā also, the nityatā shoud be admitted. ॥ 416-417 ॥ ( 1964-1965)