SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ .: 374 :. Jinabhadra Gani's [The seventh किं तद् यथाऽऽलयमात्रम् ? इत्याह-"पुरं ति" यथा पुरं शून्यं लोकानामालयमानं स्थानमात्रं, न तु तत्र लोकाः सन्ति, एवं चन्द्राद्रिविमानान्यप्यालयमात्रमेव, न तु तत्र देवाः केचित् तिष्ठन्ति, अतः कथं तेषां प्रत्यक्षत्वम् ? । अत्रोत्तरमाह-तथापि तद्वासिन आलयवासिनः सामर्थ्याद् ये सिद्धास्ते देवा इति मताः संमताः। यो ह्यालयः स सर्वोऽपि तन्निवासिनाधिष्ठितो दृष्टः, यथा प्रत्यक्षोपलभ्यमाना देवदत्ताधधिष्ठिता वसन्तपुराद्यालयाः, आलयाश्च ज्योति कविमानानि, अत आलयत्वान्यथानुपपतेय तन्निवासिनः सिद्धास्ते देवा इति मताः । आह-ननु कथं ते देवाः सिध्यन्ति ? । यादृशा हि प्रत्यक्षेण देवदत्तादयो दृश्यन्ते तेऽपि तादृशा एव स्युरिति । तदयुक्तम् , विशिष्टा हि देवदत्ताद्यालयेभ्यश्चन्द्राद्यालया इति । अतस्तेनिवासिनोऽपि विशिष्टाः सिध्यन्ति, ते च देवदत्तादिविलक्षणा देवा इति । अपरस्त्वाह-ननु " आलयत्वात् " इत्ययं हेतुस्तन्निवासिजनसाधनेऽनैकान्तिक, शून्यालयैर्व्यभिचारात् । अत्रोत्तरमाह-" न य निलयेत्यादि " न च निलया-आलया नित्यमेव शून्या भवन्ति । अयमभिप्राय:-ये केचिदालयास्ते प्रार, इदानीं, एष्यति वा कालेऽवश्यमेव सन्निवासिभिरविष्ठिता एव भवन्ति न तु नित्यमेव परिशून्याः । ततो यदा तदा वा चन्द्राद्यालयनिवासिनो देवाः सिध्यन्तीति ॥ ३२३ ॥ (१८७१) D. C.-Maurya:--Luminaries like Sun and Moon mentioned by you, are only the abodes and not the gods themselves. It could not be said, therefore, that the luminary deities are directly perceptible, just as in case of an empty town, the houses are mere places of residence for people but people do not actually reside into them, so also luminarie like moon etc should be taken as absolutely empty bodies and nothing like gods is expected to reside into them. Bhagavān: It is not so. O Maurya! Existence of the place of residence proves the existence of its residents also. So, these luminaries are not mere alayas, but they have their inhabitants also. For, that which is called an alaya or a house is always occupied by its residents. Like houses in a town
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy