________________
Vada ]
Ganadharavada
.: 351 :.
Rūpitve sa deho väcyastatspandane punar hetuḥ 1 Pratiniyataparispandanamacetanānām nāpi yuktam 1130011(1848) ]
Trans.-299-300 It may be ( your opinion ) that the effort (on the part of Soul ) may be the cause of bodily movements. ( But ) even that is not ( possible ) in case of motionless (Soul ). Or, ( it may be believed that ) the hetu is invisible and resembles it in fornlessness. (If it is said that ) by reason of form it is called deha, there should certainly be ( some ) reason behind ( its ) movement. But the regular movement of lifeless ( objects ) is not justified. ( 1847-1848)
टीका-अथैवं ब्रूषे-देहपरिस्पन्दहेतुरात्मनः प्रयत्नो न तु क्रिया, अतो नात्मनः सक्रियत्वसिद्धिरित्यभिप्रायः। अत्रोत्तरमाह-सोऽपि प्रयत्नो नभसीवाक्रिय आत्मनि न संभवति, अतः सक्रिय एवासौ। अमूर्तस्य च प्रयत्नस्य देहपरिस्पन्दहेतुत्वे कोऽन्यो हेतुरिति वाच्यम् ? । अन्यहेतु निरपेक्षः स्वत एवायं परिस्पन्दहेतुरिति चेत् । यद्येवम् , आत्मापि तद्धेतुर्भविष्यति, किमन्तर्गडुना प्रयत्नेन ? । अथादृष्टः कोऽपि देहपरिस्पन्दहेतुः, न त्वात्मा, निष्क्रियत्वात् । ननु सोऽप्यदृष्टः किं मूर्तः, अमूतों वा ? । यद्यमूर्तः, तात्मापि देहपरिस्पन्दहेतुः किं नेष्यते, अमूर्तत्वाविशेषात् ? । अथमृतिमानदृष्टः, तर्हि स कार्मणशरीरलक्षणो देह एव, नान्यः संभवति । तस्यापि च बहिश्यदेहपरिस्पन्दहेतुतया व्याप्रियमाणस्य परिस्पन्दो द्रष्टव्यः, तस्य चान्यो हेतुर्वाच्यः, तस्यापि चान्यः, तस्यापि चान्यः, तस्यापि चान्य इत्यनवस्था । अथ स्वभावादेवादृष्टस्य कार्मणदेहस्य परिस्पन्दः प्रवर्तते, तर्हि बहिर्दृश्यस्यापि देहस्य तत एव तत्प्रवृत्तिर्भविष्यति, किमदृष्टकार्मणदेहपरिकल्पनेन ? । अस्त्वेवमिति चेत् । तदयुक्तम् , अचेतनानामेवंभूतप्रतिनियतविशिष्टपरिस्पन्दनस्य स्वाभाविकत्वानुपपत्तेः, “ नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्" इत्यादिदोषप्रसङ्गात् । तस्मात् कर्मविशिष्ट आत्मैव प्रतिनियतदेहपरिस्पन्दनहेतुत्वेन व्याप्रियत इति सक्रियोऽसाविति ॥ २९९-३०० ॥ (१८४७-१८४८)॥
D. C.--Mandika :-The hetu for movements of a body is the