________________
1.M
• 240 :
Jinabhadra Gani's
[ The fourth of patata. Again sky etc. could also never be produced as they are nityajāta. Hence, O Saumya! nothing could be produced as a substance (but) everything should be taken according to the surrounding characteristics. ( 1728–1731 ).
9
"
टीका - इह कार्यं घटादिकं विवक्षया किमपि जातं जायते किञ्चिदजातम्, किञ्चिजाताजातम्, किश्चिञ्जायमानम् किञ्चित्तु सर्वथा न जायत इति । अथ यथाक्रममुदाहरणानि - " रूवीत्यादि " रूपितया घटो जातो जायते, मृदूपताया: प्रागपि भावात्, तद्रूपतया जात एव घटो जायते इत्यर्थः । संस्थानतयाऽऽकारविशेषेण पुनः स एवाजातो जायते, मृत्पिण्डाद्यवस्थायामाकारस्यासंभवात् । मृद्रूपतया, आकारविशेषेण चेति द्वाभ्यामपि प्रकाराभ्यां जाताजातो जायते, तदनर्थान्तरभूतत्वाद् घटस्य । तथा, अतीता-ऽनागतकालयोर्विनष्टानुत्पन्नत्वात् क्रियानुपपत्तेर्वर्तमानसमय एव क्रियासद्भावात् तत्समयं वर्तमानसमयं जायमानो जायते । किञ्चित्तु सर्वथा जाता - Sजातादिप्रकारैर्न जायते । किं पुनस्तत् ? इत्याह – “ पुवकओ उ इत्यादि " पूर्वकृतस्तु पूर्वनिष्पन्नो घटो घटतया जाता-जातादिविकल्पानां मध्यादेकेनापि प्रकारेण न जायते, पूर्वमेव जातत्वात् । किं घटतयैव न जायते ? | न, इत्याह - " परपजाएहिं ति तथा, पटादिगतैः परपर्यायैश्च घटो न जायते, स्वपर्यायाणां पूर्वमेव जातत्वात् परपर्यायैश्च कदाचित् कस्याप्यभवनात् । स्व-परपर्यायैः पूर्वकृतघटो न जायते, जाता-जातपट - खरविषाणवदिति भावः ।
-
99
"
तथा, जायमानोऽपि वर्तमानक्रियाक्षणसमये पटतया घटो न जायते, पररूपत्तया कस्याप्यभवनात् । किं पूर्वकृतो घट एवेत्थं न जायते, आहोस्विदन्यदपि किञ्चिद् न जायते १ इत्याह-- " वोमाईत्यादि " न केवलं पूर्वकृतो घटो घटतया न जायते, तथा व्योमादि च तेन कारणेन सौम्य ! सर्वथा जातादिभिः सर्वैरपि प्रकारैर्न जायते, येन किम् ? इत्याह--येन नित्यजातं सर्वदाऽवस्थितम्, हेतुद्वारेण विशेषणमिदम्, नित्यजातत्वाद् न जायत इत्यर्थः । उक्तस्यैवार्थस्योपसंहारव्याजेन तात्पर्यमुपदर्शयन्नाह ' इयेत्यादि ' इत्युक्तप्रकारेण सर्वमपि घट-पट - व्योमादिकं वस्तु द्रव्यरूपेण 46 न जायते "