________________
Jinabhadra Gani's
[The fourth
Hetu-pratyayasamagri visvag bhaveṣu no va yat karyam Driśyate samagrimayam sarvābhāve na sāmagri || 147 ॥ ( 1695 ) ]
•: 202 :.
Trans.-147 An object is accomplished by means of a group of causes taken together and not by hetu or pratyaya in its individual capacity. (This) collection of causes cannot be ( found ) in the ( midst of ) all-pervading negation.
टीका - हेतवः - उपादानकारणानि, प्रत्ययास्तु निमित्तकारणानि तेषां हेतु - प्रत्ययानां या सामग्री तस्या विष्वग् भावेषु पृथगवस्थासु यत् कार्यं न दृश्यते, दृश्यते च सामग्रीमयम् - संपूर्ण सामय्यवस्थायां पुनर्दृश्यत इत्यर्थः । एवं च सति कार्यस्य सर्वाभाव एव युक्त इति शेषः । सर्वाभावे च न सामग्रीनैक सामग्रीसद्भावः प्राप्नोतीत्यर्थः । ततः सर्वशून्यतैवेति भावः । इदमत्र हृदयम् - हेतवश्च प्रत्ययाच स्वजन्यमर्थ किमेकैकशः कुर्वन्ति, संभूय वा १ । न तावदेकैकशः, तथाऽनुपलब्धेः । तत एकैकस्मात् कार्यस्याभावात् सामव्यामपि तदभाव एव स्यात्, सिकताकणतैलवदिति । इत्थं च सर्वस्यापि कार्यस्योत्पत्त्यभावे सामग्रीसद्भावो न प्राप्नोति, अनुत्पन्नायाः सामय्या अप्ययोगात् । ततश्च सर्वशून्यतैव जगतः । उक्तं च
"
हेतु प्रत्ययसामग्री पृथग् भावेष्वदर्शनात् ।
तेन ते नाभिलप्या हि भावाः सर्वे स्वभावतः ॥ १ ॥
लोके यावत् संज्ञा सामग्र्यामेव दृश्यते यस्मात् । तस्माद् न सन्ति भावा भावे सति नास्ति सामग्री ॥ १ ॥
इत्यादि । अस्य च व्याख्या - पृथग् भावेष्वदर्शनात् " कार्यस्य " इति शेषः । तेन ते घटादयो भावा सर्वेऽपि स्वभावतः स्वरूपतो नाभिलाप्याः, पृथगेकैकावस्थायाः कार्यस्यानुत्पादात् उत्पत्तिमन्तरेण च घटादिसंज्ञाऽप्रवृत्तेः, संज्ञाऽभावे चाभिलप्तुमशक्यत्वादिति । कुतः पुनः पृथगवस्थायां संज्ञा - प्रवृत्ति: : इत्याह- " लोके यावदित्यादि " लोके यावत् संज्ञा " घटोऽयम् " ? 'इत्यादिसंज्ञाप्रवृत्तिः तावत् संपूर्ण कार्य संपूर्ण सामग्र्यामेव यस्माद् दृश्यते, पृथगभावे च सामय्यामप्यभावात् सिकता तैलवद् न सन्त्येव भावाः, भावासवे च कुतः सामग्रीसद्भावः १ इति ।। १४७ ।। ( १६९५ ) ॥
"